SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६ ] सरसामोदव्याख्यासहितम् । अहं बद्धोऽस्मि रागित्वादस्य सत्प्रतिपक्षताम् । प्रथमं पुरुषं वात्र मह्यं विश्वेश भावय ॥ ३६ ॥ डिण्डीर पिण्डशिख्यण्डपाण्डुरं गण्डमण्डलम् । स्वाखण्डेन्दुसतुण्डायाः कश्चण्डीश न मण्डयेत् ॥ ३७ ॥ एति नैव प्राप्नोतीत्यर्थः । द्वितीये प्रमदेति । प्रमादायाः कान्तायाः य आनयः आनयनं तत्र या मुतू हर्षः प्रीतिर्वा तया हतः विद्धः । कामातुरः कश्चित्पुरुष इत्यर्थः । अतएव नखेति । नखेन नखस्यापि स्पर्शेन या: लोलाश्चञ्चलाः कुमार्य इति यावत् । तासां या आलिः पङ्किस्तामिति सार्वविभक्तिकस्त सिः कन्यकापङ्क्तिमपि रन्तुं गच्छतीत्यर्थः । स्पष्टमेव शिष्टम् । यथावा काव्यप्रदीपे संदिग्धं यथा—' सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भावद्भूतिरेष विलोक्यताम्' । अत्र सुरालयेति देवगृहमदिरामन्दिरयोः प्राप्तपर्याप्तकम्पन इति प्राप्तसैन्यत्वप्राप्तकम्पत्वयोरुपस्थापकम् । एवमग्रेऽपीति ॥ ३५ ॥ तद्वदप्रतीतमप्युदाहरति — अहं बद्धोऽस्मीति । हे विश्वेश । एतेन प्रार्थितपूरणार्हत्वं ध्वनितम् । अहं रागित्वाद्वद्धोऽस्मीत्यत्र रागित्वादित्यस्य हेतोः सत्प्रतिपक्षतां त्वं नित्यमुक्तः पारमार्थिकत्वेन शुद्धचित्त्वादित्याद्युपदेशेन साध्याभावसाधक हेत्वन्तरवत्तां वा अथवा अत्र वाक्ये अस्मीति लट् उत्तमपुरुषाख्यातस्थाने प्रथमं पुरुषं अस्तीति तदीयमेव प्रथमपुरुषप्रयोगं मह्यं भावय भवितुर्भवनानुकूलो व्यापारविशेषो भावनेत्युक्तलक्षणभावनाशब्दितोत्पादनाभिधक्रियाविषयी कुर्विति योजना । एवंच हेतोः सत्प्रतिपक्षतापादनेनाथवाख्यातस्य प्रथमपुरुषत्वापादनेन क्रमान्मह्यं विधिमुखेनैवाद्वैतब्रह्मतया नित्यमुक्तत्वं अहं - कारस्यैव बद्धत्वबोधनद्वारा निषेधमुखेन वा तथात्वं बोधयेति भो भगवन् भक्तस्य मम त्वां प्रतीयं प्रार्थनेति तात्पर्यम् । अत्र सत्प्रतिपक्षप्रथमपुरुषभावनाशब्दाः क्रमान्नयायव्याकरणमीमांसामात्रप्रसिद्धा इत्यप्रतीतत्वम् ॥ ३६ ॥ ग्राम्यमुदाहरति- डिंडीरेति । हे चण्डीश गौरीपते, कः पुरुषः स्वेति अखण्डः पूर्णः स चासाविदुश्चन्द्रस्तेन समानं तुण्डं मुखं यस्याः सा तथा स्वस्य या अखण्डेन्दुसतुण्डा तस्या इत्यर्थः । ' डिण्डीरः पुरुषे स्मृतः । फेने वातिङ्गणे चापि' इति विश्वात् डिण्डीरस्य फेनस्य यः पिण्डस्तथा शिखिनो मयूरस्य यदण्डं सच तच्च ते तयोरिव यत् पाण्डुरं पाण्डुवर्ण एतादृशं यद्गण्डमण्डलं कपोलस्थलं तदित्यर्थः । न मण्डयेन्नालं कुर्यात् । अपि तु सर्वोऽप्यलंकुर्यादेवेति संबन्धः । अयंभावः - अयि परमात्मंस्त्वया स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य' इति, 'काम एष क्रोध एषः' इत्याद्यारभ्य जहि शत्रुं महाबाहो कामरूपं दुरासदम्' इत्यादिश्रुतिस्मृतिशतैर्मुमुक्षोः कामस्यैव सर्वथा त्याज्यत्वं विहितं तत्तुदुर्घटमेव । यद्यपि परकीयादिविषयं तं कश्चिद्वर्जयेत्तथापि स्वस्य प्रवासादिना क्वचिद्विरहे स्वकीयायास्तत्रापि पूर्णचन्द्रव १९९
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy