________________
साहित्यसारम् ।
[ पूर्वार्धे
चिरं विचिन्त्य रे चित्त सुन्दरीस्मरमन्दिरम् । किं तन्द्रां यासि चन्द्रार्धचूडा नोपसर्पसि ॥ ३२ ॥ वायुः संपीय वान्तोयं चन्दनस्थैर्भुजंगमैः । शंभो कान्तां वसन्ते किं नोत्सर्गेण प्रवर्तयेत् ॥ ३३ ॥ श्राद्धमाराधनं येन भूतनाथस्य साधितम् । निधनात्पूर्वमेवास्मै स ददाति निजं धनम् ॥ ३४ ॥ न खलो लालितो ऽप्येति प्रमदानयमुद्धतः । अतः पशुपते पाहि पशुमेनं प्रसादतः ॥ ३५ ॥ हारः संहारस्तस्मा इति । तथा अन्तर्वर्तिकामादिशत्रूपशमनार्थमित्यर्थः । अन्यः शिवभिन्नः उत्थानः 'दक्षे तु चतुरपेशल पटवः सूत्थान उष्णश्च' इत्यमरात्सूस्थानः । दक्ष इतियावत् । न विद्यते नैवोपलभ्यत इत्यर्थः । यथावा काव्यप्रकाशे - 'प्राभ्राडिष्णुधामाप्यविषमाश्वः करोत्ययम् । निद्रां सहस्रपर्णानां पलायनपरायणाम्' । अत्र प्राभ्रभ्राडिष्णुधामविषमाश्वनिद्रा सहस्रपर्णशब्दाः प्रकृष्टजलदगगनसप्ताश्वसंकोचसहस्रपत्राणामवाचका इति ॥ ३१ ॥ अथाश्लीलत्रये प्रथमं व्रीडालाख्यं वाक्यदोषमुदाहरति - चिरमिति । सुन्दरीति । सुभगाभगमित्यर्थः । तन्द्रां सुखलेशाभासानुसंधानेनासावधान तामित्यर्थः । चन्द्रेति । शशिशेखरचरणमित्यर्थः । अत्र स्मरमन्दिरपदमुपसर्पणपदं च व्रीडाजनकमित्यश्लीलत्वेऽपि व्रीडाख्यवाक्यदोषत्वं बोध्यम् ॥ ३२ ॥ एवं जुगुप्साख्यं तद्भेदमुदाहरति- वायुरिति । कान्तां प्रतीति शेषः । उत्सर्गेण सामान्येन । 'उत्सर्गो वर्जने योगे सामान्ये न्यायदानयोः' इति विश्वः । अत्र वायुवान्तोत्सर्गप्रवर्तनशब्दाः क्रमादपानवायुवमनपुरीषतत्त्यागभूयस्त्ववाचकत्वाजुगुप्साद्योतकः । यथावा काव्यप्रकाशे - ' तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुञ्जते । इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम्' इति ॥ ३३ ॥ तद्वदमङ्गलाख्यं तमुदाहरति - श्राद्धमिति । श्रद्धया कृतं श्राद्धं विश्वासपूर्वकं संपादितमित्यर्थः । एतादृशं भूतनाथस्य शिवस्य आराधनं उपासनं साधितं सर्वाङ्गसाकल्येन सिद्धिं नीतमित्यर्थः । अस्मै अधिकारिणे निधनात् 'मरणं निधनोऽस्त्रियाम्' इत्यमरान्मरणात्पूर्वमेव प्रागेव सः शिवः निजं स्वकीयं धनं द्रविणवत्प्रियं कैवल्यं ददातीत्यन्वयः । अत्र श्राद्धभूतनाथ निधनपदान्यमङ्गलानीति लक्षणसंगतिः ॥ ३४॥ एवं संदिग्धं तमुदाहरति - न खलो लालितोऽपीति । अत्र किं खलः, लालितोऽप्ययं यतः उद्धतः अतः प्रमादान् न एतीति वाक्यान्वयः कार्यः, उत प्रमदानयमुद्धतः न खलो लालितोऽप्येतीति संदेहः । तत्राद्ये खलः पिशुनः 'पिशुनो दुर्जनः खलः इत्यमरः । लालितोऽपि प्रियवाक्यादिनानोपचारैरनुनीतोऽपीत्यर्थः अयं प्रत्यक्षः यतः हेतोः उद्धतः उद्वृत्तः अतः कारणात् प्रमदान् 'मुत्प्रीतिः प्रमदो हर्षः' इत्यमरात् आनन्दानिति यावत् । न
१९८