________________
विषरत्नम् ६] सरसामोदव्याख्यासहितम् ।
अये चक्रिनसंख्यातब्रह्माण्डघटनिर्मितिम् । तनोषि तत्र मे किं न कपालमपि यच्छसि ॥ ३०॥ राधयेत्को विगत्यर्थी बुधं विषधराहते।
यदन्तःपक्षहारार्थमुत्थानोऽन्यो न विद्यते ॥ ३१ ॥ सङ्घः हंससमूह इतियावत् । मानसं प्रसिद्धमेव मानससरोवरं व्रजति प्रयातीत्यर्थः । एतस्यैवार्थस्य प्रसिद्धरादावुपस्थितिः प्रथमस्य वप्रसिद्धेविलम्बेनेति युक्तमेवेदं तदुदाहरणम् ॥ २९ ॥ अथानुचितार्थ वाक्यदोषमुदाहरति-अये चक्रिन्निति । चक्र सुदर्शनं पक्षे घटरचनसाधनमस्यास्तीति तथा तत्संबुद्धौ भो विष्णो, पक्षे रे कुलालेत्यर्थः । यतः त्वं असंख्याताः अगणिताः ये ब्रह्माण्डरूपाः घटास्तेषां निर्मितिः कृतिस्तामित्यर्थः । तनोषि विस्तारयसीति यावत् । तत्र पक्षे मे मा कपालमपि खर्परमपि किं न यच्छसि किमिति न ददासी. त्यन्वयः । नह्यसंख्यातघटस्रष्टुः कुलालस्य याचकाय खर्परमात्रप्रदाने साम
•भाव इति भावः । तस्मात्त्वयाहं कपालप्रदानेन कपालिशब्दवाच्यः श्रीशंकर एव तत्सारूप्यापादनेन कार्य इति तात्पर्यम् । अत्र चश्यादिपदमर्थान्तरं बोधयत्संप्रार्थ्यस्य भगवतः फल्गुतामेव ध्वनयतीति तादृक्पदकदम्बत्वादनुचितार्थवाक्यदोषत्वं बोध्यम् । यथावा काव्यप्रकाशे-'कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नन्नास्तव विभो । शरज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिर्धमति विगताच्छादनमिह' । अत्र कुविन्दादिशब्दोऽर्थान्तरं प्रतिपादयन्नुपश्लोक्यमानस्य तिरस्कारं व्यनक्कीत्यनुचितार्थमिति । यथावानर्ध्यराघवे-जाताः पक्कपलाण्डुपाण्डुमधुरच्छायाकिरस्तारकाः प्राचीमङ्कुरयन्ति किंचन रुचो राजीवजीवातवः । लूतातन्तुवितानवर्तुलमितं बिम्बं दधचम्बति प्रातः प्रोषितरोचिरम्बरतलादस्ताचलं चन्द्रमाः' इति । अत्र तारकाणां पलाण्डूपमा, प्राच्या स्त्रीवादङ्कुरयतीत्यनेन गुह्यरोमोद्गमव्यञ्जनं चन्द्रबिम्बस्य लूतातन्तुवितानोपमा, तथा चन्द्रकर्तृकमस्ताचलस्य पुंसश्चुम्बनं तत्र हेतुत्वेन रोचिःशब्दितस्य शोचिषः क्लीबस्य वियोगित्ववर्णनं च नीचत्वमेव सूचयतीत्यनुचितार्थकवाक्यदोषवत्त्वमिहावभातीति ध्येयम् ॥ ३० ॥ एवमवाचकाख्यवाक्यदोषमुदाहरति-राधयेदिति । विगतीति । उपसर्गस्य योगादेरबोधकमवाचकमिति पूर्वोक्ततल्लक्षणादत्र गत्यर्थीत्यपेक्षिते वीत्युपसर्गयोगेन विवक्षितो यः स्वर्गादिर्गतिशब्दार्थस्तद्वोधकत्वं नास्तीत्याद्यखिलवाक्ये लक्षणसंगतिरूह्या । तेन विशिष्टा गतिः स्वर्गादिलोकप्राप्तिर्विगतिस्तामर्थयत इति तथा । अविनाशिस्थानगमनेच्छुरित्यर्थः । एतादृशः कः पुरुषः विषधरात् विषस्य धरः खकण्ठे धर्ता शिवस्तस्मादित्यर्थः । ऋते विना । बुधं विबुधं देवमिति यावत् । राधयेत् आराधयेदित्यन्वयः । तत्र हेतुः-यदित्यादिना । यत् यस्माद्धेतोः । अन्तरिति । अन्तः अभ्यन्तरे ये पक्षाः विपक्षाः शत्रव इत्यर्थः । तेषां यो