________________
१९६
साहित्यसारम् ।
[पूर्वार्धे पप्या यय्या यियासूनां लब्धवर्णत्वमीयुषाम् । वृषाकपाय्युपक्रोशः शम्बरारीषुसंमथाम् ॥ २८ ॥ गोपत्रात्मभुवः पत्रिव्रजो व्रजति मानसम् ।
तावकस्यापि मेऽह्नाय नो वा कलयसे कथम् ॥ २९ ॥ कादयः । नवेति । नवसंख्याकाः तावत्वेनैव नागकुलानां प्रसिद्धेस्ते च ते अहयः भुजंगास्तेषां याः रसनाः अष्टादशसंख्याकाः सर्पाणां द्विजिह्वत्वेन जिह्वाः ताः उपमानिरुक्ताष्टादशसंख्याकत्वातिवैरस्यापादकत्वादिसाधानिदर्शनं येषां ते तथा एतादृशाः वाक्येऽपि सन्तीत्यन्वयः । तदुक्तम्-'अपास्याच्युतसंस्कारमसमर्थं निरर्थकम् । वाक्येऽपि दोषाः सन्येते' इति सूत्रे ॥ २७ ॥ तत्राप्रयुक्ताख्यं तमुदाहरति-पप्येति । पाति लोकमिति पपीः सूर्य इति सिद्धान्तकौमुद्यक्तेः सूर्याख्येणेत्यर्थः । एतादृशेन यय्यां यान्ति लोकाः अनेनेति ययीर्मार्ग इत्यपि तदुक्तेर्मार्गेणेति यावत् । यियासूनां यातुमिच्छन्ति ते यिया. सवस्तेषां ब्रह्मलोकं जिगमिषूणां योगिनामित्यर्थः । तत्र गत्वा किं विषयान्बुभुक्षन्ति, नेत्याह-लब्धेति । 'लब्धवर्णो विचक्षणः' इत्यमराद्विचक्षणत्वं ब्रह्मवित्त्वमिति यावत् । ईयुषां एतुमिच्छन्ति प्राप्तं वाञ्छन्ति ते तथा तेषां क्रममुक्तिकामानामित्यर्थः । अतएव । शम्बरेति । 'शम्बरारिर्मनसिजः' इत्यमराच्छम्बरारिः कामस्तस्य ये इषवो बाणास्तान्समध्नन्ति विदलयन्ति ते तथा तेषाम् । विरकानामित्यर्थः । अतएव वृषेति । 'वृषाकपायीश्रीगौर्योः' इत्यमरात् श्रीगौरी वा । उपक्रोशः 'उपक्रोशो जगुप्सा च' इत्यमरानिन्दास्पदं भवतीति योजना । हरिहरान्यतरसायुज्यमपि तेषां तुच्छमेवेति भावः ॥ २८ ॥ एवं निहतार्थ वाक्यदोषमुदाहरति-गोपत्रेति । हे गोपत्र गौर्वृषभः पत्रं 'यानं पक्षच्छदच्छुरी' इति हैमात् 'पत्रं स्याद्वाहने पर्णे पक्षे च शरपक्षिणाम्' इति विश्वाच पत्रं यानं वाहनं यस्य स तथा भो वृषभारूढ शंकरेत्यर्थः। तावकस्यापि तवायं तावको भवदेकभक्तस्यापि मे मम । एतेन त्वच्छत्रुणा पीड्यमानोहं त्वया कथं न परिपाल्यत इत्युपालम्भः सूचितः । मानसमन्तःकरणं प्रतीत्यर्थः । आत्मभुवः 'मकरध्वज आत्मभूः' इत्यमरान्मदनस्येति यावत् । पत्रिव्रजः 'पत्री श्येने रथे काण्डे खगगुरथिके त्रिषु' इति विश्वात्पत्रिणः काण्डाः शरास्तेषां व्रजः 'समूहे निवहव्यूहसंदोहविसरबजाः' इत्यमरात्समूह इत्यर्थः । व्रजति गच्छति प्रविशतीत्यर्थः । अतः अह्नाय 'नाग्झटिसजसाहाय दाङ्मक्षु सपदि द्रतं' इत्यमराच्छीघ्रमित्यर्थः । कथं वा नो कलयसे न रक्षसीति संबन्धः । मामिति शेषः । तस्मादाशु मां पाहीत्याशयः । अत्र 'द्यर्थत्वेऽप्यप्रसिद्धेऽर्थे प्रयुक्तं निहतार्थकम्' इति पूर्वोकैतल्लक्षणात्सर्वाणि पूर्वार्धपदानि तथेति तल्लक्षणसंगतिः । तथाहि हे गोपत्र गाः पान्तीति गोपास्तान् त्राति दावाग्न्यादितः संरक्षयतीति तथा भो भक्तवत्सल भगवन्, आत्मभुवः 'ब्रह्मात्मभूः' इत्यमराच्चतुर्मुखस्येत्यर्थः । पत्रिव्रजः पक्षि