SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६] सरसामोदव्याख्यासाहतम् । १९५ मतधादिशन्नानापदगत्वे सति ध्रुवम् । विज्ञेयं वाक्यदोषत्वमिदमेवात्मभेदवत् ॥ २६ ॥ व्युदस्य च्युतसंस्कारमसमर्थ निरर्थकम् । वाक्येऽपि सन्ति ते दोषा न वाहिरसनोपमाः ॥ २७ ॥ गच्छतीति तथा तस्य भावस्तत्त्वं तस्मिन्पदवृत्तित्वे सतीत्यर्थः । अतीति । परमविरसत्वाधायकत्वमिति यावत् । सत्यन्तेन वर्णदोषेनातिव्याप्तिः । नचातिपदेनैव तनिरासः शङ्कयः । एवमपि वक्ष्यमाणपदैकदेशवृत्तिदोषे व्यभिचारापत्तेः । सत्यन्तेतु तस्य पदवृत्तित्वाभावान्न तत्रासाविति हृदयम् । ‘पदैकदेशवृत्तित्वस्य एकदेशविकृतमनन्यवत्' इतिन्यायात्' तत्रानुरूपं दृष्टान्तं स्पष्टयति-क्षयित्वव. दिति । यथा क्षयित्वाख्यं विनश्वरत्वं तावदेव विंशतावपि खर्गेषु साधारणं तद्वदुक्तलक्षणमप्यसंस्कृतित्वादिष्वेकविंशतौ पददोषेषु समानमेवेति भावः । तदपि शक्काः सुखदानदक्षा ये निरुक्तसंख्याकाः खर्गास्तत्र गच्छति वर्तत इति तथा तस्य भावस्तत्त्वं तस्मिन्स्वर्गनिष्ठत्वे सति वैरस्यापादकं अतिरम्य. तमेऽपि खर्गे क्षयित्वं ज्ञातं चेत्तत्क्षणमेव विरसत्वस्यानुभविकत्वाद्वैरस्याधायकं भवत्येवेति तात्पर्यम् ॥ २५॥ एवं पददोषेऽभिहिते वाक्यदोषाभिधानस्यावसरप्राप्तत्वात्तत्सामान्यलक्षणमप्युक्तलक्षण एव सत्यन्तावापोद्वापाभ्यां संक्षिपतिमतेति । मतो विवक्षितो यो धर्मी वाक्यार्थीभूतः पदार्थविशेषः तं आदिशन्ति संभूयोपदिशन्ति एतादृशानि यानि नाना अनेकानि पदानि सुबाद्यन्तशब्दरूपाणि तत्र गच्छति इति तथा तस्य भावस्तस्मिन्सतीत्यर्थः । ध्रुवं निश्चयेन । इदमेव निरुक्तमतिवैरस्यापादकत्वमेव वाक्यदोषत्वं विज्ञेयमिति संबन्धः । बुधैरिति शेषः । तत्रापि योग्यं दृष्टान्तं स्फुटयति-आत्मभेदवदिति । अयं भावः-यथा आत्मभेदः खरूपभेदो योऽयं घटः पटो न, जीव ईश्वरो न, घटश्चैत्रो न, मैत्रश्चैत्रो नेति व्यवहारगोचरः पञ्चविधोऽन्योन्याभावः स तावन्मताः सर्वव्यवहारसंमताः ये धर्मिणो घटादयः पदार्थास्तान् आ ईषत् दिशत्यनुयोगिप्रतियोगित्वाभ्यां बोधयतीति मतधादिशन् सचासौ नानापदगोऽनेकस्थानगश्चेति तथा तत्वे सति अतिवैरस्यं रसशब्दिताद्वैतब्रह्मराहित्यं तत्संपादको भवति तद्वदुक्तलक्षणोऽयं वाक्यदोषोऽपि निरुक्तरीत्या वैरस्याधायको भवतीति । तस्माद्विवक्षितमिबोधकानेकपदवृत्तित्वे सत्यतिवैरस्यापादकत्वं वाक्यदोषत्वमिति तल्लक्षणं फलितम् । सत्यन्तं तु पदतदेकदेशदोषव्यभिचारवारणायैव । तदुक्तं काव्यप्रदीपे–'विवक्षितर्मिप्रत्यायकशब्दवृत्तित्वे सति नानापदवृत्तित्वमेवात्र वाक्यवृत्तित्वमभिप्रेतम्' इति ॥ २६ ॥ अथ वाक्यदोषानभिधातुमादौ पददोषानेव कांश्चित्तत्रातिदिशति-व्युदस्येति । च्युतसंस्कार तथा असमर्थं तद्वन्निरर्थकं च व्युदस्य दूरीकृत्य तेषां पदान्तरापेक्षत्वेन दोषत्वासंभवादपाकृत्येत्यर्थः । ते पूर्व पदनिष्ठत्वेनोक्ताः दोषाः निरुक्तापासनेऽवशिष्टा अप्रयु
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy