SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९४ साहित्यसारम् । 1 अन्य संगतमप्युक्तं चन्द्रालोकेऽन्यसंयुतम् । रेजे राधावपुः कुजे श्लथकृष्णार्चितालकम् ॥ २४ ॥ इत्येकविंशतावेषु स्वर्गवत्पददोषता । शक्तगत्वेऽतिवैरस्यापादकत्वं क्षयित्ववत् ॥ २५ ॥ 'कुतः कान्तारवृत्तीनां कार्तार्थ्यार्थित्वमस्ति नः' इति । नचास्य श्रुतिकटुत्वाख्यवर्णदोषत्वेनो कत्वात्पौनरुक्त्यमिति शङ्कयम् । वर्णे पदे चेत्यत्रैव तारतम्यविवक्षया सदृष्टान्तं समाहितत्वात् । अन्यथा काव्यप्रकाशकारिकायां 'अपास्यच्युतसंस्कारम्' इत्यादिना पददोषाणामेवं पुनर्वाक्यदोषत्वाभिधानानुपपत्तिः स्यात्तस्माद्युक्तमेवेदमिति दिक् । प्राक्तनसप्तदशदोषवदेतेषां त्रयाणामपि रसादिसाहाय्यं विनैव हेयत्वं तथा समासादिसाधारण्यं च ज्ञेयम् । कण्ठाभरणे त्विदं कष्टत्वेनोक्तमिति बोध्यम् ॥ २३ ॥ किंच चन्द्रालोकेऽन्यसंगताख्यं दोषान्तरमप्युक्तमस्तीति तदप्याह – अन्य संगतमपीति । तलक्षयति-अन्येति । अन्येन अनभिमतेनार्थेन सह संयुतमव्यवधानेन संबद्धमित्यर्थः । तदुदाहरतिरेज इति । लथ इति । श्लथाः अतएव कृष्णेन अर्चिताः संयमनवेणीकरणसुमनोग्रथनादिभिः प्रसाधिताः अलकाः कुन्तलाः यस्य तत्तथा । रतान्ते भगवता लालितमिति यावत् । अत्र पूर्वार्धमपि योज्यम् । यतः राधावपुः चन्द्रालोके अन्यसंयुतं अतस्तदन्यसंगतमप्युक्तमिति योजना । अन्येन परकीयनायकेन श्रीकृष्णेन संयुतं संयोगीत्यर्थः । अतः कारणात्तदन्यसंगतमपि अन्यस्मिन् परकीये नायके विषये सम्यकू अभिसरणयुक्तिपूर्वकं गतं गमनं यस्य तत्तथा । अभिसरणनिपुणमपि जनैरुक्तमित्यर्थः । अत्र श्लथपदमुक्तरीत्या अलकान्वितमभिमतं तथापि श्रवणोत्तररक्षणावच्छेदेन कृष्णान्वितमेवावभासत इत्यन्यसंगतत्वाख्यदोषदूषितमिति तात्पर्यम् । इहापि क्लिष्टाविमृष्टविधेयांशाख्यदोषद्वयवत्समासैकनिष्ठत्वं तद्वद्रसादिसाहाय्यं विनैव दूषकत्वमपि च्युतसंस्कृत्यादिवदेव ज्ञेयम् । उक्तं हि चन्द्रालोके – 'अन्य संगतमुत्तुङ्गहारशोभिपचोधरः' इति । नचाविमृष्टविधेयांशेनेदं गतार्थम् । लक्षणभेदादिति । यथावा नैषधीये – 'सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डले' इत्यत्र एकपदमातपत्रपदान्वितत्वेन विवक्षितमपि सितपदेनैवान्वितं भातीति ॥ २४ ॥ उक्तपददोषप्रघट्टकमुपसंहरन् काव्यप्रकाशादिमतत्रयसमुच्चयेन तेषां संख्यां कथयंस्तत्सामान्यमपि लक्षयति- इतीति । इतिशब्दोऽयं उपसंहारसूचकः प्रकारवाचकश्च । असंस्कृतित्वादिप्रकारैरित्यर्थः । एकेति । एकविंशतिसंख्याकेषु एषु प्रतिपदमुक्तपददोषेष्विति यावत् । स्वर्गवत् यथा दिव्यभौमबैलभेदेनैकविंशतिस्वर्गाः पुराणादौ प्रसिद्धा एव तद्वदित्यर्थः । ततः किं तत्राह - पदेति । तत्र यथा पददोषता स्थानदोषतास्ति तद्वत्प्रकृतेऽपीयं पददोषता भवतीत्यध्याहृत्य संबन्धः । का सेत्यत्राह - शक्तगत्व इति । शक्तं सुबाद्यन्तं पदं तत्र - [ पूर्वार्धे
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy