SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । येन कोऽपि विशेषो न तत्तु स्यादप्रयोजकम् । हरनेत्राग्नियोगात्प्राक्साङ्गालं मार ते शरैः ॥ २२ ॥ जष्टं वर्णैः कठोरैश्चेत्पदं परुषमुच्यते । कार्तार्थ्य धार्तराष्ट्राणां कथं स्यात्पद्मिनीमुहाम् ॥ २३॥ नयैव रीत्योदाहारि ॥ २१ ॥ एवमप्रयोजकं लक्षयति-येनेति । येन पदेन कोऽपि विशेषः प्रकृते वयेनैव भवति तत्तु पदमप्रयोजकलाख्यदोषदुष्टत्वादप्रयोजकं स्यादित्यन्वयः । नचोक्कापुष्टार्थेऽतिव्याप्तिरिति वाच्यम् । तस्य प्रकृतानुपयोगित्वादस्य तु प्रकृते विशेषानाधायकत्वाच्च । तथाहि-उपयोगित्वं नाम अवश्यापेक्षितत्वम् । विशेषाधायकत्वं तु गुणापादकत्वमेव । यथा 'गुणवद्वस्तुसंयोगाद्याति स्वल्पोऽपि गौरवम्' इत्यत्र गुणवत्पदं विना केवलं वस्तु संयोगात्' इत्यनेन खल्पपदवाच्यस्य गौरवासिद्धेस्तस्यावश्यापेक्षितत्वम् । यथाच 'सुधांशुकलितोत्तंसस्तापं हरतु नः शिवः' इत्यत्र यद्यपि शिवस्य तापहारकत्वम् 'ज्ञात्वा शिवं शान्ति मत्यन्तमेति' इत्यादिश्रुतिसिद्धमेव तथापि तत्र सुधेत्यादिपदेन चन्द्रदर्शनस्य शान्ति' जनकत्वं प्रत्यक्षसिद्धमेवेति शान्तिकारकत्वे लौकिकसामग्रीसत्वलक्षणो गुणोऽपि साधित इति बोध्यम् । यथावा घटादिकार्य प्रति दण्डाद्यवश्यापेक्षितं मृत्तिका।शौक्लयादि तु गुणाधायकमेव तद्वदिति न कोऽपि दोषः। उदाहरति–हरेति। हरः शिवस्तन्नेत्राग्नेयोगात्संयोगात्प्राक्पूर्व साङ्गः शरीरविशिष्टस्तत्संबुद्धौ । एतेन तदूर्ध्वमनशैत्यर्थः सिद्धः । एतादृश रे मार मदन, ते तव शरैर्बाणैरलम् । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरान किंचित्प्रयोजनमिति योजना । अत्र विशेषणपदेन यद्यपि शिवभक्त मयि त्वच्छरवैफल्यमेवेति ध्वन्यते तथापि पूर्वोदाहरणे पञ्चाननपदवदनङ्गपदेनापि तत्संभवाद्विशेषानाधायकत्वेन तस्याप्रयोज. कत्वाख्यदोषदुष्टत्वमेवेति दिक् । तथाचोक्तं प्रतापरुद्रीये-'तदप्रयोजकं यत्स्यादविशेषविधायकम्' इति लक्षयित्वा 'हन्त वर्तामहे वज्रघटनात्प्राक्चलात्मसु इति ॥ २२ ॥ एवं परुषं लक्षयति-जुष्टमिति । पक्षे कठोरैः निर्दयैः वर्गम्लेच्छादिवर्णभेदविशेषैर्जुष्टं सेवितं पदं स्थानं परुषं रुक्षमुच्यत इति । तदुदाहरति-कार्तार्थ्यमिति । धार्तराष्ट्राणां दुर्योधनादीनां धृतराष्ट्रपुत्राणाम् । पक्षे 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः । मलिनैर्मल्लिकाख्यास्ते धार्तराष्ट्राः सितेतरैः' इत्यमरादसितचञ्चुचरणानां श्वेतगरुतां हसविशेषाणामित्यर्थः । पनि नीति । पद्मिनी द्रौपदी तस्यां मुह्यन्ति ते पधिनीमुहस्तेषां महापतिव्रतापरवनितासक्तानामित्यर्थः । एतादृशां सतां, पक्षे कमलिनीसंमुग्धानामिति यावत् । अत एव कथं कार्ताक्षं संपादितपुरुषार्थत्वं स्यान्न कथमपि भूयादिति संबन्धः । पक्षे कमलिन्यामलिकुलसंकुलत्वादेतेषां बिसादिलाभासंभवानैव कार्तायें संभवतीति भावः । अत्र कार्तार्थ्यादिपदं कठोरवर्णघटितत्वात्पारुष्यदोषदुष्टमित्याशयः । उक्तंहि प्रतापरुद्रीये-'परुषं नाम तद्यत्स्याद्विहितं परुषाक्षरैः' इति लक्षणमुक्त्वा १७
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy