________________
साहित्यसारम् ।
किंच प्रतापरुद्रोऽन्यत्त्याज्यं दोषत्रयं जगौ । लक्ष्यलक्षणतस्तेऽपि कथ्यन्ते वैद्यके यथा ॥ २० ॥ अपुष्टार्थं तु तज्ज्ञेयं प्रकृतानुपयोगि यत् । विंशत्यधर्धवको मां विषयेभ्योऽभिरक्षतु ॥ २१ ॥ बन्धुप्रियामित्यत्र स्फुट एवातो युक्तमेव तथात्वमिति । यदि तु स्वहत्सखीमिति पठ्येत तदा नायं दोषः । यथावा काव्यप्रकाशे विरुद्धमतिकृत् । यथा - 'सुधाकरकराकारविशारदविचेष्टितः । अकार्यमित्रमेकोऽसौ तस्य किं वर्णयामहे' । अत्र कार्ये विना मित्रमिति विवक्षितम् | अकार्येषु मित्रमिति तु प्रतीतः । यथाच - ‘चिरकालपरित्यक्तलोचनानन्ददायिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम्' । अत्र कण्ठग्रहमिति वाच्यम् । 'न त्रस्तं यदि नाम भूतकरुणासंतानशान्तात्मनस्तेन व्यारुजता धनुर्भगवतो देवाद्भवानीपतेः । तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सवः स्कन्दः स्कन्द इव प्रियोऽहमथवा शिष्यः कथं विस्मृतः । अत्र भवानीपतिशब्दो भवान्याः पत्यन्तरे प्रतीतिं करोति । यथावा - 'गोरपि यद्वाहनतां प्राप्तवतः सोऽपि गिरिसुतासिंहः । सविधे निरहंकारः पायाद्वः सोऽम्बिकारमण : ' इति । अत्राम्बिकारमण इति विरुद्धां धियमुत्पादयतीति । एवं रघुवंशेऽपि --' इत्थं व्रतं पालयतः प्रजार्थ समं महिष्या महनीय कीर्ते:' इति । अत्र महिषीपदेन ' कृताभिषेकामहिषी' इति कोशादभिषिक्ता राजपत्नी विवक्षिता । प्रतीयते त्वाबालपण्डितं निरुक्तकोशादिस्फूर्तेः प्राक्सैरिभस्त्री सा तावत्प्रकृते विरुद्वैवेत्यलं परदोषान्वेषणेनेति । तत्र हि समं स्वपत्येति वाच्यमिति नायं दोष इति शिवम् ॥ १९ ॥ प्रतापरुद्रीये तु दोषान्तराणामप्युपलब्धेरतस्तत्कथनमपि सपरिकरं प्रतिजानीते— किंचेति । त्याज्यमित्यनेन तत्कथनस्यावश्यकत्वं व्यनक्ति । जगौ कथयामासेत्यर्थः । लक्ष्येति । लक्ष्यमुदाहरणं लक्षणमसाधारणधर्मस्ताभ्यामिति तृतीयायास्तसिः । ते तदुक्तदोषा इत्यर्थः । अपिः प्रागुक्तदोषैः सह समुन्नये । वैद्यक इति । यथा वैद्यकशास्त्रे सुश्रुतचरकादौ कफवातपित्ताख्यास्त्रयो दोषाः सलक्षणोदाहरणं प्रपञ्चितास्तत्क्षोभोपशमार्थमेव तथात्रापि वक्ष्यमाणास्ते पुष्टार्थत्वादयः कथ्यन्त इत्यर्थः॥२०॥ तत्रापुष्टार्थसंज्ञकं दोषं लक्षयति- अपुष्टार्थ त्विति । प्रकृतं वर्ण्य तत्र अनुपयोगि । अनुपकारकमित्यर्थः । तमुदाहरति - विंशतीति । विंशतिसंख्यायाः अर्ध दश तस्याप्यर्धं पञ्च तत्संख्याकानि वक्राणि यस्य स तथा । पञ्चवदनः शिव इत्यर्थः । स मां विषयेभ्यः शब्दादिपञ्चविषयेभ्यः सकाशादभिरक्षतु । पञ्चभिर्मुखैस्तेषां पञ्चानामपि मिथ्यात्वादिदोषकथनेन तत्पारवश्यताध्वंसद्वारा पालयत्वित्यर्थः । अत्र विंशतीत्यादिपदं प्रकृते पञ्चास्ये अनुपकारकमेवेति तस्य दुष्टत्वमिति तत्त्वम् । तदुक्तं प्रतापरुद्रीये – 'प्रकृतानुपयुक्तार्थमपुष्टार्थे तदुच्यते' इति तलक्षणमभिधाय ' व्यर्थाष्टाधर्धवाहूनामभीषामीदृशी दशे' इति । सरखतीकण्ठाभरणे तु 'यत्तु तुच्छाभिधेयं स्यादपुष्टार्थं तदुच्यते' इत्युक्त्वा शतार्धेत्यादिना -
1
१९२
[ पूर्वा