SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६ ] सरसामोदव्याख्यासहितम् । विपरीत मतेर्हेतुर्विरुद्धमतिकृन्मतम् । स्वसृप्रेयानपीन्दुः किं तत्सद्मनि विरुध्यति ॥ १९ ॥ १९१ यथावा चन्द्रालोके – 'अविमृष्टविधेयांशसमासपिहिते विधौ । विशन्ति विशिखप्रायकटाक्षाः कामिनां हृदि' इति । प्रतापरुद्वीयेऽपि - ' अविमृष्टविधेयांशं गुणीभूतविधेयकम्' इति । नञ्समासेऽप्येतत्संभवति । तथा चोदाहृतं साहित्यदर्पणे । यथावा- 'अमुक्ता भवता नाथ मुहूर्तमपि सा पुरा' । अत्र मुक्तेत्यत्र नत्रः प्रसज्यप्रतिषेधत्वमिति विधेयत्वमेवोचितम् । यदाहुः - अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् । यथावा — 'नवजलधरः संनद्धोऽयं न तृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न दुष्टशरासनम् । अयमपि पटुधारासारो न बाणपरंपरा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोवंशी' । उक्तोदाहरणे तत्पुरुषसमासे गुणीभावे नञः पर्युदासतया निषेधस्य विधेयतानवगमः । यदाहुः——प्रधानलं विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्' तेन 'जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।' अत्र अत्रस्तताद्यनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुणभावो युक्तः । नन्वश्राद्ध भोज्यसूर्यपश्या राजदारा इत्यादिवदमुक्तेत्यत्रापि प्रसज्यप्रतिषेधो भविष्यतीति चेन्न । तत्रापि यदि भोजनादिरूपक्रियांशे नञः संबन्धः स्यात्तदैवं तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यम् । नच तथा । विशेष्यतया प्रधानेन तद्भोज्यर्थेन कर्त्रशेनैव नञः संबद्धत्वात् । यदाह श्राद्धभोजनशीलो ह्यतः कर्ता प्रतीयते न तद्भोजनमात्रं कर्तरि णिनेर्विधानात् इति । अमुक्तेत्यत्र तु क्रिययैव संबन्ध इति दोष एवेति । यथावा - 'रसैः : कथा यस्य सुधावधीरिणी नलः स भूजानिरभूद्गुणाद्भुतः । सुवर्णदण्डैकसि - तातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डलः' इति नैषधीये । अत्र ज्वलत्प्रतापावलिकीर्तिमण्डले उद्दिश्य तत्र सुवर्णदण्डैकसितातपत्रत्वे विधेये ते च समासाच्छादितत्वेनामुख्यत्वाद्गुणीभूते एवेत्युक्तदोषः स्फुट एवेति दिकू ॥ १८ ॥ विरुद्धमतिकृलक्षयति- विपरीतेति । तदुदाहरति-स्वसृप्रेयानपीति । इन्दुश्चन्द्रः खसृप्रेयानपि स्वसुः खभगिन्याः लक्ष्म्याः प्रेयान्प्रीतिविषयोऽपीत्यर्थः । तदिति । तस्याः लक्ष्म्याः यत्सद्म गृहं 'लक्ष्मीः पद्मालया' इत्यमरात्तन्निवासस्थानं कमलं तस्मिन् विषय इति यावत् । किंविरुद्धयति किमिति विरोधं विदधातीति संबन्धः । स्वप्रेमवत्याः स्वसोदर्याः सद्मनि शत्रुत्वरचनं चन्द्रस्यानुचितमेवेति भावः । अत्र ‘धवः प्रियः पतिर्भर्ता' इत्यमरात्प्रियशब्दस्य भर्तृवाचित्वात्स्वस्य स्वभगिनीभर्तृत्वरूपविरुद्धबुद्धेः कारणत्वं तावत्प्रियपदपर्यायघटिते खसृप्रेयानिति पदे स्फुटमेवेति लक्षणसंगतिः । यथावा कुमारसंभवे - तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ' इति । अत्र बन्धुप्रियामिति पदमुक्तरीत्या विरुद्धमतिकृदेव । तथाहि-- ' यथा प्रियशब्दस्य भर्तृवाचित्वं तद्वत् 'कमला श्रीर्हरिप्रिया' इत्यादौ प्रियापदस्यापि पत्नीवाचकत्वात्स्वस्याः खभ्रातृपत्नीत्वावगमो
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy