SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । 1 परंपरैकसंबोध्यो यस्यार्थक्लिष्टमत्र तत् । गौरीवरशिरोहीरद्दारवार्यादरोऽमरः ॥ १७ ॥ अविमृष्टविधेयांशममुख्योक्तविधेयकम् । सुन्दरीन्दीवराकारहगन्तैः कान्तमञ्चति ॥ १८ ॥ तु समासैकनिष्ठमित्याह – साधारण्यादिति । स्फुट एवाक्षरार्थः । इदमपि ‘अथ भवेत्क्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ' इति काव्यप्रका शकारिकोक्त्यनुसारेणैवोक्तम् । वस्तुतस्तु 'बन्धोः प्रियां स्वसुः प्रयान् इत्यादौ ब्यस्तेऽपि विरुद्धमतिसंभवात्क्लिष्टाविमृष्टविधेयांशे एव समासमात्रगते इति ज्ञेयम् । एवं मृडान्याः पतिरित्यादावपि ॥ १६ ॥ तत्र क्लिष्टं लक्षयति - परंपरेति । अत्र अलंकारशास्त्रे । स्पष्टमन्यत् । तदुदाहरति — गौरीति । गौरी पार्वती तस्या वरः पतिः श्रीशंकरः तस्य शिरः मस्तकं तत्र यो हीराख्यरत्न विशेषाणां हारस्तद्रूपं वारि जलं यस्याः सा तथा तस्यां आदरो यस्य स तथा । गङ्गाराधनतत्पर इत्यर्थः । एतादृशो यः स तावदमर एवेति संबन्धः । अत्र निरुक्तगौरीत्यादिपदस्यायं गङ्गापरायणवलक्षणोऽर्थः परंपरैकसंबोध्य इति क्लिष्टत्वदोषदुष्टमिदं पदार्थतः समासगत एवायमत्र दोष इति लक्षणसंगतिः । यथोक्तं साहित्यदर्पणे—'क्लिष्टत्वमर्थप्रतीतेर्व्यवहितत्वम्' । यथा ' क्षीरोदजा वसति जन्मभुवः प्रसन्ना' इति । यथावा 'हितं न विहितं मया विषयवासनायासिना गता मम मितायुषो दुरितधूसरा वासराः । मनोभव मनोभवान्त कवितंसवक्रोल्लसन्नखायुधशिखादलद्दनुजमर्मणि ब्रह्मणि' इति । अत्र मनोभवान्तकेति पदं परम्परैकसबोध्यार्थकत्वात्तथेति ॥ १७ ॥ अविमृष्टविधेयांशं लक्षयति- अविमृष्टेति । अमुख्येति । न मुख्यं प्रधानं यथा स्यात्तथेत्यमुख्यं तथा उक्त विधेयं प्रतिपाद्यं येन यत्र वेति तथा प्राधान्येनाप्रतिपादितविधेयांशमित्यर्थः । तदुदाहरति--सुन्दरीति । इन्दीवराकाराः कुवलय|काराः नीलजलजसरूपा इति यावत् । एतादृशः ये दृगन्ताः अपाङ्गप्रान्तास्तैरित्यर्थः। कान्तं खरमणं अश्ञ्चति पूजयतीत्यर्थः । अत्र पूजनं हि कुसुमैरेव प्रसिद्धमिति तदुपयोगितया विधेयं यदपाङ्गेष्विन्दीवरत्वं तत्तावत्खाकारताद्वारा तद्विशेषणीभूतत्वेनामुख्यमेवेति लक्षणसमन्वयः । तदुक्तं काव्यप्रकाशे - 'अविमृष्टप्राधान्येन अनिर्दिष्टः विधेयांशो यत्र' । तद्यथा - 'मूर्ध्ना मुद्वृत्तकृत्ताविरलगलगलद्रः कसंसक्तधाराधौतेशाङ्घ्रिप्रसादोपनतजय जगज्जातमिथ्या महिम्नाम् । कैलासोल्लासनेच्छाव्यतिकर पिशुनोत्सर्पिदपद्धराणां दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः' । अत्र मिथ्यामहिमलं नानुवाद्यम् । अपितु विधेयम् । यथाच — 'स्रस्ता नितम्बादवरोपयन्ती पुनः पुनः केसरदामकाञ्चीम् । न्यासीकृतां स्थानविदा स्मरेण द्वितीय मौवमिव कार्मुकस्य' । अत्र मौर्वी द्वितीयामित्यत्र द्वितीयमात्रमुत्प्रेक्ष्यम् । यथाच - 'वपुर्विरूपाक्षमलक्षजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने' । अत्रालक्षिताजनिरिति वाच्यमित्यादि । १९० [ पूर्वार्धे
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy