SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८९ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । लोकमात्रस्थितं ग्राम्यं फुल्लगल्लासि वल्लभे । अतिलाक्षणिकं ज्ञेयं नेयार्थं तेऽक्षि सूर्यभित् ॥ १४ ॥ नेयार्थमपरे प्राहुः स्वसंकेतैकसार्थकम् । तीरभा विपरीता मे दयाद्विद्यां कदा मुदा ॥ १५॥ साधारण्यात्समासादिनिष्ठास्त्वेते चतुर्दश। समासमात्रगं ज्ञेयं क्लिष्टादित्रितयं बुधैः ॥ १६ ॥ तेनाप्रतीतमिति बोध्यम् ॥ १३ ॥ ग्राम्यं लक्षयति-लोकमात्रेति । तदुदाहरति-फुल्लेति । उक्तं हि काव्यप्रकाशे ग्राम्यं केवलं लोके स्थितम् । यथा-'राकाविभावरी कान्तसंक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभा कटिश्च हरते मनः' इति । चन्द्रालोकेऽपि—'मस्तपिष्टकटीलोष्टगल्लादिग्राम्यमुच्यते' इति । यथावा कालिदासीये शृङ्गारतिलके–'कस्तूरीवरपत्रभङ्गानिकरो भ्रष्टो न गण्डस्थले नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेत्राञ्जनम् । रागो न स्खलितस्त. वाधरपुटे ताम्बूलसंवर्धितः किं रुष्टासि गजेन्द्रमत्तगमने किंवा पतिस्ते शिशः' इति । नेयाथै लक्षयति-अतिलाक्षणिकमिति। तदुक्तं काव्यप्रकाशे–'निरूढलक्षणाः काश्चित्सामर्थ्यादभिधानवत् । क्रियन्ते सांप्रतं काश्चित्काश्चिनैव वशक्तितः' इति । नेयं निषिद्धं लाक्षणिकं यथा-'शरत्कालसमुल्लासि पूर्णिमाशर्वरीश्वरम् । करोति ते मुखं तन्वि चपेटापातनातिथिम्' । अत्र चपेटापातनेति निर्जितवं लक्ष्यत इति । चन्द्रालोकेऽपि-'नेयार्थलक्षणात्यन्तप्रसरादमनोहरम् । हिमांशो हारधिक्कारजागरे यामिकाः कराः' इति । तदुदाहरति–त इति । हे वल्लभे इत्यनुकर्षणीयम् । ते अक्षि नेत्रं सूर्यभित् प्रसन्नत्वारक्तरेखाङ्कितत्वादि. धर्मोत्कर्षात्पद्मतिरस्कारात्तन्मित्रीभूते सूर्ये दुःखजनकत्वात्तत्खण्डकत्वं तेन कमलपराजयशीलत्वं लक्ष्यत इति दूरतरत्वात्तथेति बोध्यम् । यथावा नैषधीये'प्रियं प्रियां च त्रिजगज्जयश्रियौ लिखाधिलीलागृहभित्ति कावपि । इति स्म सा कारुवरेण लेखितं नलस्य च खस्य च सख्यमीक्षते' । अत्र सख्यमिति पदं रूपसाम्येऽत्यन्तलाक्षणिकम् । तद्यथा मैत्रीवाचकं सख्यपदं, साच समानशीलव्यसनयोरेव, तच तुल्यगुणयोरेव, तेच तुल्यरूपयोरेवेति । यथावा गोवर्धनसप्तशत्याम्-'इह शिखरिशिलालम्बिनि विनोददरतरलवपुषि तरुहरिणे । पश्याभिलषति पतितुं विहगी निजनीडमोहेन' इति । अत्र तरुहरिण इति सर्वमपि परिवृत्यसहत्वात्तथा ॥ १४ ॥ इदमेव मतान्तरेण लक्षयति-नेयार्थमिति । तदुक्तं प्रतापरुद्रीये-'वसंकेतप्रसिद्धार्थ नेयार्थ परिकीर्त्यते' इति लक्षयित्वा व्यत्यस्तनववृत्तय इत्युदाहृत्य च व्यत्यस्तनवशब्देन वनप्रतीतिः स्वसंकेतमात्रायत्तेति नेयार्थमिति । तदुदाहरति-तीरेति । भारतीत्यर्थः ॥ १५॥ एवमुक्तदोषाः किं समासगा अप्युतासमासगा एवेत्याशङ्कय च्युतसंस्कृत्यादिनेयार्थान्ताश्चा. तुर्दशैवैते पददोषाः समासनिष्टत्वासमासनिष्टत्वोभयसाधारणाः क्लिष्टाद्यवशिष्टत्रयं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy