SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १८८ साहित्यसारम् । [पूर्वार्ध त्रिधाश्लीलं क्रमाडीडाजुगुप्साऽमङ्गलार्थकृत् । साधनं वायुरोधश्चेन्नाशः सुमनसो न किम् ॥ १२ ॥ संशयात तु संदिग्धं रमणीयार्थकारणम् । अप्रतीतं भवेच्छास्त्रमात्रसिद्धं गताऽशयम् ॥ १३ ॥ स्येत्यर्थः । अबोधकं तदवाचकं केवलं पारायणमात्रप्रयोजनं भवतीति संबन्धः । अत्र उपेत्युपसर्गयोगात्सर्गपदे प्रकृतार्थबोधकं न भवतीत्यवाचकं बोध्यम् । तदुकं चन्द्रालोके-'अर्थे विदधदित्यादौ दधदायमवाचकम् । धत्ते नभस्तलं भाखानरुणं तरुणैः करैः' इति । इदमेव सरखतीकण्ठाभरणे रूढिच्युतत्वेनान्यार्थमित्युक्तं प्रतापरुद्रीयेऽपि ॥ ११॥ अश्लीलं त्रैविध्येनाभिधाय लक्षयतिविधेति । व्रीडार्थकृत् जुगुप्सार्थकृत अमङ्गलार्थकृदिति क्रमात्रिधा अश्लीलमस्तीत्यर्थः । तस्माल्लज्जाद्यर्थबोधकपदत्वमश्लीललमिति यावत् । तदुदाहरतिसाधनमिति । हे देवदत्त, तव वायुरोधः प्राणादिनिरोधः साधनं चेत्सुमनसः कर्मादिना शुद्धस्य चेतसः नाशः न भवेत्किम् , अपितु भवेदेवेति संबन्धः । अत्र साधनवायुनाशशब्दाः क्रमेण मेंद्रापानवायुमरणोपस्थापकतया लज्जादिव्यजकवादश्लीला इति ध्येयम् । कण्ठाभरणे वस्य त्रिविधस्यापि प्रत्येकमसभ्याद्यर्थतदाद्यर्थान्तरतदादिस्मृतिसूचकत्वेन त्रैविध्यानवविधमश्लीलमुक्कं तदिह गौरवादन्यत्राप्रसिद्धत्वाच नैवोक्तमतस्तत्रैव द्रष्टव्यमिति संक्षेपः । उक्तहि चन्द्रा. लोके–'अश्लीलं त्रिविधं ब्रीडाजुगुप्साऽमङ्गलात्मना । आहादसाधनं वायुः कान्तानाशे भवेत्कथम्' इति । यथावा रघुवंशे-'अन्येारात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश' इत्यत्र शष्पमिति । एवं वासवदत्तायामपि-'अविदितगुणापि सत्कविसूक्तिः कर्णेषु वमति मधुधाराम् । अनधिगतपरिमलाहि हरति दृशं मालतीमाला' इत्यत्र वमतीति उभयत्रापि क्रमाद्विरूढदूर्वमिति किरति पीयूषमिति च वक्तव्यमिति ॥ १२ ॥ संदिग्धं लक्षयति-संशयात त्विति । संशयेन संदेहेन आत पीडितं संदेहग्रस्तमित्यर्थः । स्पष्टमन्यत् । तदुदाहरति रमणीत्यादिद्वितीयपादेन । किमत्र या अर्थकारणं धर्मादिपुमर्थहेतुः सा रमणीति। यद्वा रमणीयः मनो. ज्ञो योऽर्थः पदार्थस्तस्य कारणं बीजं तु संदिग्धमित्येकपदेन वाक्ययोजनेति संदेहः । यथावा साहित्यदर्पणे-'आशीःपरम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु' । अत्र वन्द्यामिति किं बन्दीभूतायामुत वन्दनीयामिति संदेह इति । अप्रतीतं संलक्ष्योदाहरति-अप्रतीतमिति । गतः आशयो वासना यस्य तत्तथा । एतादृशमन्तःकरणं शास्त्रमात्रं सिद्धं भवेत् । यतः अप्रतीतं प्रतीतिविषयी. भूतं लोके क्वापि नास्तीत्यन्वयः । अत्र वासनापरत्वेनाशयपदं योगशास्त्रैकसिद्धं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy