SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । १८७ तदिहानुचितार्थं यत्प्रकृतायोग्यबोधकम् । परमाश्चर्यमस्माकं मूर्खः शास्त्रमरौ पिकः ॥१०॥ पादपूरणमात्रार्थ तुहीत्यादि निरर्थकम् ।। उपसर्गस्य योगादेरबोधकमवाचकम् ॥११॥ व्यर्थत्वेऽपि प्रकृते तनक्षत्रलक्षणे अप्रसिद्ध एवार्थ प्रयुक्तमिति निहतार्थकमेव, यद्वा गूढार्थकमेवेति लक्षणसमन्वयः । यथावा रघुवंशे–'अथास्य गोदानविधेरनन्तरम्' इत्यत्र गोशब्दः केशपरत्वेन तथा दानपदं छेदनपरत्वेन च विवक्षितमित्युक्तदोषग्रस्तमेवेति ॥ ९ ॥ अनुचितार्थ लक्षयति-तदिहेति । प्रकृतं प्रक्रान्तं यद्वयं तत्र अयोग्यं यत्तद्बोधकमित्यर्थः । तदुक्तं काव्यप्रकाशे'तपखिभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या । प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः' । अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थमिति । चन्द्रालोकेऽप्युक्तं 'व्यनक्त्यनुचितार्थ यत्पदमाहुस्तदेव तत् । इयमद्भुतशाख्यग्रकेलिकौतुकवानरी' इति। तदुदाहरति–परमेति। मूर्ख इति । अत्र शास्त्रस्य नीरसतापादकं निर्जलदेशरूपकबोधकं मरुपदं तथा मूर्खस्य तत्र मञ्जुवाक्वव्यञ्जकं पिकपदं च प्रकृतानुचितार्थबोधकमिति लक्षणसंगतिः । यथावा कुमारसंभवे-'यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम्' इति । अत्र छेदपदं द्वैधीभावे शक्तमिति मेघद्वैधीभावाद्रुधिरोद्गारव्यञ्जकत्वेन प्रकृतं यद्गरिकादिधातुकर्तृकं मेघशकलेषु वरागस्य संक्रामणं तदयोग्यबोधकमिति दिक् ॥ १० ॥ निरर्थकं लक्षयति-पादेति । तदुदाहरति-तुहीत्यादीति । आदिना हिरुगादिग्रहः । उक्तं हि काव्यप्रकाशे-'निरर्थकं पादपूरणमात्रप्रयोजनं चादिपदम् । यथा-'उत्फुल्लकमलकेसरपरागगौराते मम हि गौरि । अभिवाञ्छितं प्रसिद्धयतु भगवति युष्मत्प्रसादेन' । अत्र हिशब्द इति । यथावा गोवर्धनसप्तशत्याम्-'निजपदगतिगुणरञ्जितजगतां करिणां च सत्कवीनां च । वहतामपि महिमानं भूषायै सज्जना एव' इत्यत्र द्वितीयचकारेणैव तुल्ययोगितालंकारसिद्धौ प्रथमचकारस्तथेति । अवाचकं लक्षयन्नुदाहरति-उपसर्गस्यति । उपसर्गस्य प्रादित्वेन प्रसिद्धस्य । योगादेः योगः संयोगः । आदिना वियोगः । पञ्चमीयम् । तथाच उपसर्गसंयोगवियोगहेतोरित्यर्थः । अबोधकं न बोधयति प्रकृतोपयोगिनमर्थ विरहदुःखमित्यादावुपसर्गयोगेन दुःखनिरासरूपं तद्वन्मन्दिरे हरेत्यादावुक्तोपसर्ग वियोगेन विलसनलक्षणं च न प्रतिपादयतीत्यबोधकमिति यावत् । एतादृशं यत्पदं तदवाचकं अवाचकत्वाख्यदोषदुष्टमित्यन्वयः । इदमेवास्योदाहरणम् । अत्र योगेति षष्ठी तत्रापि नोपसर्गेत्यनया समानाधिकरणा । तथाच यत् शास्त्रमित्यध्याहारः । योगादेः आदिना ज्ञानादिः । एवंच चित्तनिरोधब्रह्मात्मबोधादेः संबन्धिन इत्यर्थः । उपेति । सर्जनं सर्गः । तस्य रचन
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy