________________
१८६
साहित्यसारम् ।
[पूर्वार्धे असमर्थ मतेऽशक्तं यौगिकैकार्थमेव वा। यजन्त्यनानि ते धन्याः स्मराम्युष्णप्रभाधरम् ॥८॥ द्यर्थत्वेऽप्यप्रसिद्धेऽर्थे प्रयुक्तं निहतार्थकम् ।
गूढार्थकं तदित्यन्ये राधां चन्द्रोऽद्य चुम्बति ॥९॥ स्पर्शनं प्रतिपादनम्' इत्यमरात्तथा दानार्थकत्वेन तत्प्रयुक्तमपि सर्वत्र तदनुपलम्भादप्रयुक्तमेवेति ॥ ७ ॥ अथासमर्थ लक्षयति-असमर्थमिति । मते खाभिमते अर्थे अशक्तं शक्तिवृत्तिशून्यमित्यर्थः। तदुक्तं काव्यप्रकाशे-'असमर्थ यत्तदर्थ पठ्यते न च तत्र तस्य शक्तिः' । यथा 'तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः । सुरस्रोतखिनीमेष हन्ति संप्रति सादरम्' इति । मतान्तरेण लक्षयति-यौगिकैकार्थमेव वेति । यद्वा योगवृत्तिमात्रार्थकमसमर्थमित्यर्थः । तथाचोक्तं प्रतापरुद्रीये-'योगमात्रप्रयुक्तं यदसमर्थं तदुच्यते' इति । एतदुदाहरणमपि तत्रैव । असमर्थं यथा-'विहाय वसुधामेतां चतुरम्बुधरावृताम् । क्वनु गन्तव्यमस्माभिररण्येऽप्यसुखा स्थितिः' । अत्र जलनिधिपरत्वेनाम्बुधरपदमसमर्थमिति । एवं मतद्वयेऽपि तृतीयचतुर्थपादाभ्यां क्रमेणोदाहरति-यजन्तीति । अत्र यद्यपि 'यज देवपूजासंगतिकरणदानेषु' इति धातुपाठाद्यजते. दर्दानार्थकत्वमुररीकृत्य ये अन्नानि यजन्ति ददति ते धन्या इति प्रयुक्तं तथापि न तस्य तत्र शक्तिर्लोके तथा प्रयोगादर्शनादतस्तदसमर्थ तद्वदुष्णा चासौ प्रभा च तस्याः धरः सूर्यस्तमित्येतदपि यौगिकैकार्थकमिति तथा भवतीति भावः । यथावा रघुकाव्ये—'विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् । आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु' इत्यत्र विनयन्त इति पदं दूरीकरणार्थकमभिमतं नतु तस्य तत्र शक्तिों के विनयपदस्य नम्रतैकार्थत्वादिति । सरस्वतीकण्ठाभरणे तु असङ्गतत्वेनेदं लक्षयिला 'जलं जलधरे क्षारमयं वर्षति वारिधिः । इदं बृंहितमश्वानां ककुद्मानेष हेषते' इत्युदाहृतम् ॥ ८॥ निहतार्थ लक्षयति-यर्थत्वे. ऽपीति । व्यर्थत्वे गवादिशब्दवदुभयार्थत्वे सत्यपीत्यर्थः । तथापि अप्रसिद्ध रूढौ काव्यादिप्रसिद्धिशून्य इति यावत् । एतादृशे अर्थे वर्गादिपदार्थे प्रयुक्तं पदं निहतार्थकं भवतीति संबन्धः । एतस्यैवं लक्षणमुदाहरणं चोकं काव्यप्रकाशे 'निहतार्थ यदुभयार्थमप्रसिद्धार्थे प्रयुक्तम्' । यथा-'यावकरसाईपादप्रहारशोणितकचेन दयितेन । मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा' । अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोज्वली कृतरूपोऽर्थो व्यवधीयत इति । प्रताप रुद्रीयमते खस्य संज्ञान्तरमेवेति तदप्याह-गूढार्थकमिति । अन्ये प्रतापरुद्रीयकारास्तन्निरुक्तलक्षणं दुष्टं पदं गूढार्थकमिति वदन्तीति योजना । उक्तहितत्र 'प्रयुक्तमप्रसिद्धार्थे गूढार्थ परिकीर्त्यते' इति । तदुदाहरति-राधामिति चरमचरणेन । अत्र 'राधा विशाखा पुष्ये तु सिद्धतिघ्यौ अधिष्ठया' इत्यमराद्विशाखानक्षत्रे गोपकन्याविशेषे च पुराणादिप्रसिद्धयैव राधापदं शक्तमिति तस्य