________________
विषरत्नम् ६]
सरसामोदव्याख्यासहितम् ।
१८५
असंस्कृतिपदं तत्स्यान्न ययाकरणे मतम् । शान्ता रमन्त एकान्ते कान्तां चिन्त्य श्ववान्तवत् ॥ ६॥ अप्रयुक्तं तु कोशादावुक्तमप्यमतं सताम् । अङ्गनापाङ्ग एवायं वज्रः स्फुरति सङ्गिनाम् ॥ ७॥
त्यक्षदशकम् । स्पष्टमेवावशिष्टम् ॥ ५ ॥ अथ प्रतिज्ञातसंख्यांस्तान्प्रायः पूर्वो. र्धेषूद्देशलक्षणाभ्यामुत्तरार्धेषु तूदाहरणेन च काव्यप्रकाशीयसूत्रक्रमानुसारेणेव कथयन्प्रथमं च्युतसंस्कृत्याख्यं पददोषं विशदयति-असंस्कृतीति । तथा चाहु:-'दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् । निहतार्थमनुचितार्थे निरर्थकमवाचकं त्रिधाश्लीलम् । संदिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेक्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव' इति । पक्षे 'तद्धेदं तमुव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत' इति श्रुतेर्नामाद्यात्मकदृश्यविकासनलक्षणे व्याकरणे सत्यत्वेन प्रतीयमाने सति यन्मतं 'यस्यामतं तस्य मतम्' इति श्रुत्युक्तरीत्या स्वप्रकाशत्वेनापरोक्षीभूतं न भवति तत्पदं 'ततः पदं तत्परिमार्गितव्यम्' इति स्मृतेर्ब्रह्मतत्त्वं असंस्कृति संस्कारोपलक्षितनिखिलक्रियाफलविकलं स्यादित्यन्वयः। उक्तं हि श्रीमत्सर्वज्ञात्ममुनीश्वरचरणैः—'न खाध्यायवदाप्यता नच पुनस्त्रेताग्निवजन्यता न व्रीह्यादिवदस्य संस्कृतियुजा नो सोमवद्विक्रिया' इत्यादि । उदाहरति-शान्ता इति । अत्र चिन्त्येति पदम् । तत्र हि 'समासे नपूर्वे क्वो ल्यप्' इत्यनेन समास एव क्त्वाप्रत्ययस्य ल्यविधानादिह तु तदभावाच्युतसंस्कृतीति । तस्मान्मत्वेति पठनीयम् । यथावा 'संविद्रते व्याकरणविरुद्धच्युतसंस्कृति' इति चन्द्रालोके, सरस्वतीकण्ठाभरणे त्विदमसाध्वित्युक्तम् ॥ ६ ॥ एवं क्रमप्राप्तमप्रयुक्तं लक्षयति-अप्रयुक्तं त्विति । आदिना व्याकरणवैदिकनिघण्टुग्रहः । सतां विदुषां अमतं काव्यादौ प्रयोज्यत्वेनासंमतमित्यर्थः । तदुदाहरति-अङ्गनेति । संङ्गिनां रागिणामिति यावत् । अत्र वज्र इति । 'हादिनी वज्रमस्त्री स्यात्' इत्यमराद्यद्यपि वज्रशब्दः पुनपुंसकोभयलिङ्गकोऽप्यस्ति तथापि 'वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुबिम्बोदयः । करक्लेशमहीरुहामुरुभरज्वालाजटालः शिखी द्वारं निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्वयम्' इति भामिनीविलासादिकाव्येषु नपुं. सकलिङ्गस्यैव तस्य प्रयोगदर्शनात्पुंलिङ्गत्वेन प्रयोक्तं सच्छब्दितकवीन्द्राणां नैवायं संमत इति तत्त्वम् । उक्तंहि साहित्यदर्पणे-'अप्रयुक्तत्वं तथाप्रसिद्धावपि कविभिरनादृतत्वम्' । यथा ‘भाति पद्मः सरोवरे'। अत्र पद्मशब्दः पुंलिङ्ग इति । यथा वा-'अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि । शक्योऽस्य मन्युभवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः' इति रघुवंशे। अत्र स्पर्शयतेति । तत्र हि 'स्पृश संस्पर्शने' इति धातुसूत्राद्दानार्थकत्वाभावेऽपि 'विश्राणनं वितरणं