SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम्। [पूर्वार्धे द्वितीयः पददोषस्तु ज्ञेयः सप्तदशात्मकः। ऋते रसादिसाहाय्यं स हेयो लिङ्गदेहवत् ॥ ५॥ प्रमदयमदंष्ट्रासहचरैः शरैर्मुक्तो जीवन् द्विरिव शरजन्मा समभवत् । इमां च क्षत्राणां भुजवनमहादुर्गविषमामयं वीरो वारानजयदुपविंशान्वसुमतीम्' इति । 'विनयनिचुलितर्भवद्वचोभिः कमपि नवं विवृणद्भिरङ्कमन्तः । अयमजनि करः कृतान्तदंष्ट्राक्रकचकठोरकुठारदुर्निरीक्ष्यः' इति च । एतच्च श्रीरामं प्रति धनुर्भङ्गोत्तरमागतस्य क्रुद्धपरशुरामस्य वचः । अत्रापि यमदंष्ट्रा कृतान्तदंष्ट्रेति च वर्णद्वयं । तथा, अत्रोक्तरीत्या प्रथमे वीरस्य द्वितीये रौद्रस्य व्यक्तत्वान्न तदोषावहम् । एवं बीभत्सेपि 'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसान्यंसस्फिक्पृ. छपिण्डायवयवसुलभान्युग्रकृत्तीनि जग्ध्वा । आत्तस्नाय्वन्त्रनेत्रात्प्रकटितदशनः प्रेत एकः करङ्कादङ्कस्थादस्थिसंस्थस्थपुटगतमपि क्रव्यमव्यग्रमत्ति' इति काव्यप्रकाशो. दाहृतपद्ये उत्कृत्योत्कृत्येत्यादिवर्णानां तथात्वेऽपि न दोषापादकत्वं, किंचैतेषु रसेषु प्रत्युतैवं वर्णविन्यासोऽनुकूल एवेत्यनुपदमेव गुणरत्ने वक्ष्याम इति दिक ॥ ४ ॥ एवं वर्णदोषमाभाष्य पददोषं सामान्यतः सप्तदशसंख्याकत्वेन प्रतिजानीते-द्वितीय इति । किमयं सार्वत्रिक एव यद्वा क्वचिदेतदपवादोऽपीत्याशङ्कय तदपवादं सूचयति-ऋत इति तृतीयपादेन । आदिना भादिः । तस्माद्यत्रायं च्युतसंस्कृत्यादिः सप्तदशविधोऽपि दोषो रसायनुग्राहकश्चेत्तत्र गुण एवेति तात्पर्यम् । उपलक्षणमिदं वावयदोषादेरपि । तदुक्तं काव्यप्रकाशमूले'वाद्यौचित्यवशादोषोऽपि गुणः क्वचित्वचिन्नोभौ' इति । तस्यैव काव्ये दूषकत्वेन त्याज्यत्वं विधत्ते-स इति । ऋत इत्याद्यत्रापि काकाक्षिगोलकन्यायेनान्वेति । तत्र दृष्टान्तमाह-लिङ्गेति । लिङ्गदेहो यथा ब्राह्मणत्वादिजात्यवच्छिन्नगौरत्वादिगुणविशिष्टस्थूलदेहापेक्षया द्वितीयः पद्यते मुमुक्षुभिः प्राप्यत इति व्युत्पत्त्या पदशब्दितमद्वैतं ब्रह्मात्मतत्त्वमेव । तदूषयति कर्तृत्वभोक्तृत्वादिग्रस्तमिवानन्तविक्षेपैः करोतीवेति पददोषस्तथा श्रोत्रादिज्ञानेद्रियपञ्चकं वागादिकर्मेन्द्रियपञ्चकं प्राणादिशारीरवायुपञ्चकं मनोबुद्धिश्चेति सप्तदशात्मकस्तद्वद्रसादिसाहाय्यं ऋते रसोवै सः' इति श्रुतेरात्मा हि मुख्यो रसः स आदिर्यस्य दृश्यस्य तत्तथा तस्य यत्साहाय्यं तद्विवेकोपयोगिलं तद्विना हेयस्त्याज्यः मिथ्यात्वेनानादरणीयः सदसद्विवेकार्थमेवेन्द्रियाद्यात्मकलिङ्गशरीरादरो मुमुक्षुभिः क्रियते तद्वद्रसाद्यनुग्राहकश्चेदुक्तदोषोऽपि काव्ये गुणवबाह्य एवान्यथा तु हेय एवेति भावः । तदुदाहरणानि त्वग्रे अपवादविचारेऽत्रैव प्रपञ्चयिष्यामः । सप्तदशात्मकवं तु लिङ्गदेहस्योकं श्रीमत्संक्षेपशारीरके–'इह तावदक्षदशकं मनसा सह बुद्धितत्त्वमथ वायुगणः । इति लिङ्गमेतदमुना पुरुषः खलु संगतो भवति जीवः' इतीति । श्रोत्रलक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणी
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy