________________
विषरत्नम् ६] सरसामोदव्याख्यासहितम् ।
१८३ वर्णद्वयं तदुदाहरणम् । यदि तु 'श्रुतिभीतिप्रदो वर्णः सर्वः श्रुतिकटुर्मतः' इति विन्यासस्तदा नायं दोषः । तत्राप्युद्वेगजनकत्वमित्युक्ते सदावतिप्रसङ्गवारणाय श्रवणेति । तावति कृते विद्युसनावतिव्याप्तिरतो वर्णेति । तथापि तादृक्पददोषे तन्निरासाय सर्वांशत्वेनेति । यद्वा तादृक्पददोषस्यैतेनैव सिद्धिः दुष्टं पद श्रुतिकटिति काव्यप्रकाशकारिकात्वे तदभिप्रायिकैव पदैकदेशीभूतवर्णनिष्ठदोषेणैव कलङ्कित्वादिवत्तत्र तदुष्टताभिधानात् । अतएव तदुदाहरणे 'अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः । आलिङ्गितः स तन्वङ्गया कार्ताक्षं लभते कदा' इत्यत्र कार्थ्यमिति पदं सर्वांशेन श्रुतिकटु तेन नोदाहृतं किंतु ककारादिभिन्नवर्णाश एव नोचेत् 'श्रूयुव्यौय्यं मत्तभूपानां सन्तः पश्यन्ति किं मुखम्' इत्यादिवत्सर्वांशश्रुतिकदेव पदमुदाहरेत् । नच तथाप्येवंजातीयस्य पदस्य का गतिरिति वाच्यम् । विषसंपृक्तान्नवत्तत्र पददोषत्वभानेऽपि सूक्ष्मदृशा विचार्यमाणे मन्त्रादिना तत्सामर्थ्यनिरासेन तदन्यस्य भक्षणीयत्ववदत्र श्रवणोद्वेजकेतरवर्णघटितपदे तदप्रतीतेर्वर्ण एव पर्यवसानात् । अतः कालादिति वीररौद्रेत्यादिपदाप्रासंबध्यते । तेन काात्सर्वांशेन वीररौद्रवीभत्सकैर्विना श्रुतिभीतिप्रदवर्णत्वं इत्येव तल्लक्षणं वाच्यम् । एवंच रौद्रादिभावतदाभासादिसत्त्वेऽप्युक्तवर्णदोषस्यादूषकत्वादादरणीयत्वमेवेति फलितम् । तदुदाहरणानि च स्वयमेवोह्यानि गौरवान्नेहोच्यन्ते । नचैवं च्युतसंस्कृत्यादौ संभवति । तस्य पदैकधर्मत्वात् । ततो युक्तमेवेदं लक्षणम् । अत एवोक्तं चन्द्रालोके-'भवेच्छुतिकटुवर्णः श्रवणोद्वेजने पटुः' इति । ननु तथापि काल्याच्छ्रुतिकटुरिति कुतो वर्णद्वयं त्वयो. दाहृतमिति चेन्न । भिन्नपदस्थितत्वेन तस्योदाहरणप्राचुर्यार्थत्वात् । अतएवोक्तं काव्यप्रदीपे–'एकत्र पदे वर्णद्वयकटुत्वे पददोषत्वम् , एकस्यैव तथात्वे पदैकदेशदोषत्वम्' इति । एतेनास्य तथात्वमपि सिद्धमिति बोध्यम् । एवंच 'अलमतिचपलत्वात्स्वप्नमायोपमत्वात्परिणतिविरसत्वात्सङ्गमेनाङ्गनायाः । इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षी विस्मरत्यन्तरात्मा' इति । तदीयोदाहरणमपि त्वात्त्वादित्यादिना तथाभूतं व्याख्यातम् । तत्र शृङ्गारप्राधान्यात् , इह वीरेत्यादिना प्रतिप्रसवापरनामकापवादोक्तेवीरादिष्वेवंजातीयकवर्णसत्वेऽपि न दोष इति द्योतितम् । तथाहि वेणीसंहरणे-'क्रोधोद्गीर्णगदस्य नास्ति सदृशः सत्यं रणे मारुतेः कौरव्ये लघुहस्तता पुनरियं देवे यथा सीरिणि । वस्त्यस्तूद्धतधार्तराष्ट्रनलिनीनागाय वत्साय मे शङ्के तस्य सुयोधनेन समरं नैवेतरेषामहम्' इति । इदं हि द्रौपदी प्रति धर्मराजवाक्यम् । अत्रोद्धतधार्तराष्ट्रेति ष्ट्रकारः श्रुतिकटुरेव यद्यपि तथापि द्वितीयपादेनोद्दीपितस्य मारुतिपदेन क्रोधेत्यादिपदेन चानुभावितस्य सुयोधनालम्बितस्य कोपादिसंचारितस्य भीमसेननिष्ठरणोत्साहस्यैव युद्धवीरस्थायिभावस्योत्तरार्धोक्तयुधिष्ठिरकर्तृकाशीर्वादादिव्याजेन काव्यलिझादितः प्राधान्येन व्यञ्जनान्नैव दूषकः । अनयराघवेऽपि–'महासेनो यस्य