SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १८२ साहित्यसारम् । [पूर्वार्धे वर्ण पदे च वाक्ये चेत्येवं वाचस्त्रिधास्ति सः। मौग्ध्ये माने वियोगे च स्वमृगाक्ष्या इव श्रमः॥३॥ तत्राद्य एकधा वीररौद्रबीभत्सकैर्विना। श्रुतिभीतिप्रदो वर्णः कात्या॑च्छू तिकटुर्मतः॥४॥ वक्षसि । तिष्ठन् स्फुरन् , पक्षे आलिङ्गनविशेषवशादधिवसन्नित्यर्थः । काव्यं निरुक्तलक्षणं गद्यादिप्रबन्धं, पक्षे शुक्रं वीर्यमित्यर्थः । नच काव्यपदेन शुक्रग्रहो लक्षितलक्षणाग्रस्तत्वादनुचित एवेति वाच्यम् । 'मुक्तो दैत्यगुरुः प्रियेण सहसा पश्चात्कुतः सङ्गमः' इत्यादौ कविसमयेऽपि तद्दर्शनात् । क्षणात्तत्कालं अधः पातयति नीचतां नयतीत्यर्थः, पक्षे स्खलयतीति यावत् । भारतीति । भारती वाणी रामादिशब्दः, अर्थो जानकीशादिस्तौ जुषति सेवत इति तथा तम् । शब्दार्थान्यतरवर्तमानमित्यर्थः । पक्षे भया खकान्त्या रतिरूपं सुरतलक्षणं अर्थ कामाख्यपुरुषार्थ जोषयति खनायकं समुद्दीपनात्सेवयतीति तथा तम्। सुरतान्तसमये कञ्चुक्यभावेन खगौरतरदीप्तिदर्शनादेव निजनेतुः सद्यः पुनः क्रीडऔत्सुक्यापादकमित्यर्थः । तमेव मनीषिणः पण्डिताः दोषं, पक्षे बाहुंभाषन्ते ब्रुवन्तीत्यन्वयः । तस्माच्छब्दार्थान्यतरनिष्ठत्वे सति तदनादरकारणत्वं दोषलक्षणं सिद्धम् । पुरुषदोषे व्यभिचारवारणाय सत्यन्तम् । अत्र काव्यशब्दादेरेव विवक्षितत्वान्न शास्त्रीयदोषादावतिव्याप्तिः । अधिकं तु मदीये शारदोदये ज्ञेयमित्युपरम्यते ॥ २ ॥ एवं शब्दार्थनिष्ठताभेदेन सामान्यतो दोषस्य द्वैविध्येऽपि पुनराद्यस्य वर्णादिगतत्वभिदा त्रिधात्वमुद्दिशति-वर्ण इति । वर्णे अकारादौ, पदे सुबन्तादौ, वाक्ये प्रागुक्तलक्षणे तत्समूह इत्यर्थः । सः पूर्वप्रकृतो दोषः । तत्रानुरूपं दृष्टान्तं स्पष्टयति-मौग्ध्य इत्युत्तरार्धेन । एतेन वर्णदोषस्य खीयहरिणनयनासंबन्धिमौरध्यापरनामकाप्रौढत्वे सति तद्भर्तृश्रमवद्वैरस्याधायकत्वं पदादौ तु क्रमेणोत्तरोत्तराधिक्यमिति ध्वनितम् । तन्मौग्ध्ये तद्रमणस्य यावच्छ्रमो भवति तदपेक्षया तन्मानादौ तच्छ्रमाधिक्यादिदर्शनादिति तत्त्वम् ॥ ३॥ तत्रापि प्रथमस्य वर्णदोषस्यैकविध्यमभिदधदन्ययोर्बहुविधत्वं ध्वनयति-तत्रेति । उक्तदोषत्रय इत्यर्थः । आद्यः पूर्वः । भवत्वेवं तस्य तथात्वं तत्रापि किंनामरूपोऽसावि. त्यत्राह-वीरेत्यादिशेषेण सोदाहरणम् । वीररौद्रबीभत्सकैविना एतनामकरसैविना काात् सर्वांशत्वेन । श्रुतीति । श्रुतिः श्रवणेन्द्रियं, पक्षे वेदः तद्भीतिप्रदः खश्रवणोत्तरक्षण एव कार्कश्यात्पराङ्मुखतापादक इत्यर्थः । पक्षे तत्प्रा. माण्याखीकारेण तद्भशहेतुरिति यावत् । एतादृशो यो वर्णः अक्षरविशेषः, पक्षे म्लेच्छादिहीनजातिविशेष इत्यर्थः । सः । श्रुतीति । श्रुतेः कर्णस्य, पक्षे वेदस्य कटुरिवानादरणीय इति यथार्थनामा मतः प्राचां संमतोऽस्तीति योजना । तस्मात् श्रुतिकटुरिति तन्नाम, तथा वीररौद्रबीभत्सैविना सर्वांशत्वेन श्रवणोद्वेगजनकवर्णत्वं श्रुतिकटुत्वमिति तल्लक्षणं च सिद्धम् । तत्र 'लाच्छु' इति
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy