________________
१७९
अश्ववररत्नम् ५] सरसामोदव्याख्यासहितम् ।
यद्वा लक्ष्यत्वमद्वैतिमतेऽस्ति ब्रह्मणो यथा। तथा व्यञ्जनयैवास्तु रसादे!ऽपरोक्षता ॥ ६८ ॥ किंच शक्त्याद्यगम्यत्वादुक्तव्यङ्ग्यधियः कथम् । विना व्यञ्जनया सिद्धिरित्यर्थापत्तितोऽपि तत् ॥ ६९ ॥ तदनन्तमपि व्यङ्ग्यमगौणाद्यखिलं त्रिधा।
रसालंकारवस्त्वाख्यभिदाद्यं वाच्यतासहम् ॥ ७० ॥ सिद्धे सतीत्यर्थः । सर्वेति । सर्वमभिधेयं प्रमेयत्वादिति केवलान्वयिलिङ्गकमनुमानं तर्कशास्त्रे प्रसिद्धमेवेति भावः। तार्किकेति । एतेनाद्वैतिमते ब्रह्मणो लक्ष्यत्वेऽपि न क्षतिरिति घोतितम् । अस्य रसारित्यर्थः ॥ ६७ ॥ तदेवाङ्गीकृत्य ममापि तन्मतमेवेष्टमिति ध्वनयनर्थात्तार्किकखण्डनं व्यनक्ति-यद्वेति । एतेन तार्किकमते सिद्धान्तित्वाभावलक्षणोऽस्वरसः सूचितः । लक्ष्यत्वमिति । भागत्यागलक्षणावृत्त्यैव तत्त्वमस्यादिवाक्यार्थज्ञानगम्यत्वमित्यर्थः । नः अस्माकमालंकारिकाणां मत इति यावत् । स्पष्टमन्यत् ॥ ६८ ॥ एवमनुमानप्रमाणेन रसायंग्यत्वं संसाध्यार्थापत्त्यापि तत्साधयति-किंचेति । उक्तेति । उक्तमनुमानेन व्यञ्जनावृत्तिमात्रगम्यतया साधितं एतादृशं यद्यङ्गयं रसाद्यष्टकं तस्य या धीनिं तस्येत्यर्थः । रसादिवरूपापरोक्षानुभवस्येति यावत् । व्यञ्जनया विना कथं सिद्धिः स्यात् । कुत इति चेत्तत्राह-शक्त्यादीति । शक्तिरभिधावृत्तिः । आदिपदालक्षणा तदुभयागम्यत्वात् शक्तिलक्षणान्यतराविषयत्वादित्यर्थः । इति निरुक्तरूपा या अर्थापत्तिस्ततस्तल्लक्षणप्रमाणेनापि तद्रसादेः व्यञ्जनामात्र गम्यत्वं भवतीति संबन्धः। अत्रोपपाद्यं रसादेर्व्यङ्गयत्वं तज्ज्ञानेन यत् तस्य शक्त्याद्यगम्यत्वपूर्वक व्यंजनावृत्तिगम्यरूपमुपपादकं तस्य कल्पनमस्त्येवेति प्रागुक्तस्योपपाद्यस्य संबोधादुपपादककल्पनमित्यर्थापत्तिलक्षणस्य संगतिबोध्या ॥ ६९॥ नन्वस्तूक्तप्रमाणवशाद्रसाद्यष्टकस्य व्यञ्जनावृत्त्येकगम्यत्वं तथापि यदि 'उत्तमोत्तमकाव्याख्यो यो ध्वनिः प्रागुदाहृतः । असंख्यातोऽप्यसौ शक्तिलक्षणामूलतो द्विधा'इति प्राक्त्वयैव ध्वन्याख्यस्यसरसत्वेऽपि व्यङ्गथैकप्रधानस्योत्तमोत्तम काव्यस्यानन्त्यमुक्तम् । तथा तदेवं सगुणीभूतव्यङ्ग्यरित्यादिना तथा सालंकारैरिति प्राचां वचसेदमनन्यधेत्यधु. नाऽस्मिन्नपि रत्ने उत्तमकाव्याख्यगौणव्यङ्गयस्यापि तथात्वमेवाभिहितं तर्हि तद्भुत्सूनां वैमुख्यापत्तिरेव । नानन्ते तस्मिन् कस्यापि जिज्ञासाङ्करीभावमप्यर्हति । तस्माद्विफल एव साहित्यशास्त्रप्रणेतृणां श्रम इत्याशङ्कायां व्यङ्गयत्वावच्छिन्नं निखिलमप्युक्तरूपमनूद्य श्रोतृसौकर्यार्थ तस्य रसादिभेदेन त्रैविध्यं विधत्ते-तदित्यर्धेन । अगौणं ध्वन्याख्यम् । आदिपदाद्गौणव्यङ्गयादेर्ग्रहः । तानेव भेदानभिधत्ते-रसेत्यादिना भिदेत्यन्तेन । तत्राप्याद्यस्य रसाख्यव्यगयस्य व्यञ्जनावृत्तिमात्रगम्यत्वं द्योतयन्ननभिधेयत्वं विधत्ते-आद्यमित्यादिशेषेण ।