________________
१८.
साहित्यसारम्।
[ पूर्वार्ध अन्यथान्त्यद्वयं तत्र चित्रमाद्यं न चान्तिमम् । न च लक्ष्यत्वमेवास्तु रसादावित्यपीर्यताम् ॥ ७१ ॥ तात्पर्यानुपपत्त्यैव लक्षणेह विनापि ताम् । रसानुभवकोटेरप्युक्तत्वादखिलं शिवम् ॥ ७२ ॥ गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दभ्रे ।
पञ्चममगूढमुनिमुखमसुन्दरान्त्याङ्गमश्ववररत्नम् ॥ ७३॥ वाच्यतेति। वाच्यतां शक्यतांन सहत इति तथा। उपलक्षणमिदं लक्ष्यताया अपि। शक्तिलक्षणान्यतरागम्यमित्यर्थः ॥७०॥ अवशिष्टस्यालंकारादियुग्मस्य तद्वैपरीत्यंविधाय तयोः क्रमेण चित्राचित्राख्यं तान्त्रिक संज्ञाद्वयं विधत्ते- अन्यथेत्य धैन । तदुक्तं काव्यप्रकाशे–'संकलनेन पुनरस्य ध्वनेस्त्रयो भेदाः । व्यङ्गयस्य त्रिरूपत्वात् । तथाहि-किंचिद्वाच्यतां सहते किंचित्त्वन्यथा । तत्र वाच्यतासहमविचित्रं विचित्रं चेति । अविचित्रं वस्तुमात्रम् । विचित्रं त्वलंकार इति । रसादेर्लक्ष्यत्वमेवास्त्विति दााथै पुनराशङ्कय तत्परिहारं प्रतिजानीते-नचेति शेषेण । ईर्यतां कथ्यतामिति यावत् ॥ ७१ ॥ तत्र हेतुं वक्तं लक्षणायाः कारणं स्मारयति- तात्पर्येति । भवतीति शेषः । इह तां विनापि पद्मिनी पश्य पश्येत्यादौ रसायनुभूतेः शतधोक्तत्वादिति हेतुं तदलक्ष्यत्वेन वदन्नुपसंहरति—इहत्यादिशेषेण ॥ ७२ ॥ गोक्षीराब्धेरिति । पूर्वार्धमिदं प्रागुक्तार्थमेव । पञ्चममिति पञ्चमसंख्याकमित्यर्थः । पक्षे मुखं सप्तसंख्याभेदभिनमपि मुखवसामान्येनेहैकमेवाभिमतम् । तथा चत्वारः पादाश्चेति पञ्चसंख्याके. ध्ववयवेषु मा लक्ष्मीः शोभा यस्येति तत्तथा। मुखे हि दर्शनीयत्वशोभासर्वसाधारण्येन पादेषु तु चाञ्चल्यादिलक्षणैव बोध्या । अश्वस्य हि शीघ्रगामित्व एव पूज्यत्वप्रसिद्धः । अगुढेति । अगूढमपरस्याङ्गमित्यादिप्रागुदाहृतकाव्यप्रकाशकारिकोक्तरीया अगूढव्यङ्ग्यादिकाक्वाक्षिप्तां तानि गौणव्यङ्गयाख्योत्तमकाव्यजातानि मुखानीव मुखानि प्रथमेक्षणीयानि य स्य तदित्यर्थः । पक्षे अगूढानि स्फुटान्येव मुनिसंख्याकानि सप्तसंख्यानि मुखानि वदनानि यस्य तदित्यर्थः । क्षीराब्ध्युत्पन्नस्य सूर्याश्वस्य सप्तमुखत्वं प्रसिद्धमेव । असुन्दरेति । असुन्दराख्यं अन्यं चरमं अगं अवयवो यस्य तदित्यर्थः । तदुक्तम्-'अगूढमपरस्याङ्गवाच्यसिद्धयङ्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम्' इति । पक्षे चरमं गुदाख्यमन्त्यम् । एतेन तद्भिन्नावयवेषु तस्यासुन्दरखव्युदासः । अश्वेति रूपकमुपमा वात्र ज्ञेया । पक्षे स्फुटमेव ॥ ७३ ॥
इति साहित्यसारे पञ्चमरत्नं संपूर्णम् ॥ ५ ॥