SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७८ - साहित्यसारम् । [पूर्वार्धे सामान्यतो रसादौ तु रसादिपदतोऽथवा। विशेषतोऽपि शृङ्गारप्रमुखैरपि नामभिः ॥ ६४॥ भूयोऽप्यभिहिते तस्य विभावादिप्रमां विना । न चमत्कारकारित्वं तत्सत्वे तहतेऽपि तत् ॥ ६५ ॥ अन्वयव्यतिरेकाभ्यामेवमाबालपण्डितम् । स्फुट मेवास्ति तेनास्य कथं सत्प्रतिपक्षता ॥६६॥ एवं सर्वाभिधेयत्ववादस्तार्किकसंमतः। नैव नश्यति नाप्यस्याव्यङ्ग यत्वमपि सिद्ध्यति ॥ ६७॥ भाष्यतामिति योजना ॥ ६३ ॥ ननु कुतो नास्य सत्प्रतिपक्षवमिति चेकिं भवता रसत्वावच्छिन्ने रसादिपदार्थे रसादिपदशक्यत्वं साध्यत उत तदनुभवो दशमस्त्वमसीति वाक्यजन्यदशमानुभववच्छब्दशक्तिमात्रजन्य इति तत्राद्यमङ्गीकृत्य द्वितीयं प्रत्याख्यातुमन्वयव्यतिरेको रसादेर्व्यञ्जनामात्रगम्यत्वद्योतको युग्मेन वदन्कि सामान्यतो रसादिपदाभिधेयो रसादिराहोखित् विशेषतः शृङ्गारादिपदाभिधेयः स इत्याशङ्कय नोभयमपि संभवती याह-सामान्यत इ. त्यादि । तुशब्दः प्रोक्तशङ्कोपशमार्थः । रसादौ सामान्यतः रसादिपदतः अथवा विशेषतोऽपि शृङ्गारप्रमुखैरपि नामभिः ॥६॥भूयोऽपि वारंवारमपि अभिहिते शक्तिवृत्त्या प्रतिपादिते सति तस्य रसादेः। विभावेति 'व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः' इति काव्यप्रकाशकारिकावचनाद्विभावानुभावादीनां यथार्थानुभवं विना चमत्कारकारित्वं तत्स्वरूपानुभवजनकत्वं न नैवास्ति । तदिति। उक्तविभावादिप्रमासत्वे तहतेऽपि उक्तरसाद्यभिधावृत्तिप्रतिपादनं विनापि तत् निरुक्त चमत्कारजनकत्वं वर्तत इत्यन्वयः । अत्र पादोनयुग्मेनान्वयः शेषेण व्यतिरेकः ॥ ६५ ॥ एवमुक्तान्वयव्यतिरेकाभ्यां सर्वानुभवेनापि रसस्य व्यञ्जनावृत्तिमात्रगम्यत्वात्तद्भिन्नकाव्यार्थयोर्वस्त्वलंकारयोरेवाभिधार्हखाच वस्त्वाद्येवाभिधाद्यह रसायन्यत्वत इति हेतोः क नाम सत्प्रतिपक्षता स्यादिति निगमयति-अन्वयेति । आबालेति । बालाश्च पण्डिताश्च बालपण्डिताः बालपण्डितेभ्यः आ इत्याबालपण्डित बालान्पण्डितांश्चाभिव्याप्येत्यर्थः । एवमित्यत्राप्यनुकर्षणीयम् । तेन एवं अन्वयव्यतिरेकाभ्यां आबालपण्डितं एवं रसाळनयतामात्रत्वं स्फुटमेवास्तीति संबन्धः संपद्यते । तेन रसादेर्व्यङ्गयतैकसिद्धिलक्षणेन हेतुने त्यर्थः । अस्य रसायन्यत्वत इति प्रागुक्त हेतोरिति यावत् । कथं सत्प्रतिपक्षता नैवोक्तहेत्वाभासत्वं घटत इत्यर्थः ॥ ६६ ॥ ननु तर्हि रसादिरभिधेय इत्यादिनोक्तानुमानं किमसदितिचेन । रसादिखावच्छिन्नरसादिपदार्थमात्रस्यैवाभिधेयत्वपरत्वेन तस्योपक्षीणतया रसादिस्वरूपस्य व्यञ्जनामात्रगम्यतायां तस्याविरोधित्वादित्याशयेन तार्किकसंमतं तस्याभिधेयत्वं वसंमतं व्यङ्गयत्वं चोपस्थापयति-एवमिति । एवं निरुक्तरीत्या रसादेः खरूपस्य व्यङ्गयत्वमात्रे
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy