________________
अश्ववररत्नम् ५] . सरसामोदव्याख्यासहितम् ।
वस्त्वद्येवाभिधाद्यहं रसायन्यत्वतो यथा । घटादीत्यनुमानेन व्यङ्गयतैवात्र सिद्धयति ॥ ६२॥ रसादिरभिधेयः स्यात्पदार्थत्वाद्धटादिवत् ।
नेति सत्प्रतिपक्षत्वमस्याव्याप्तत्वमुच्यताम् ॥ ६३ ॥ नुमानस्य प्रकारः प्रसर इत्यर्थः । उक्तरूपेणानुमानाख्यप्रमाणेन प्रानिरूपितरसस्य व्यञ्जनावृत्तिमात्रगम्यत्वं कथं सिध्यतीत्याशङ्कय तत्समाधानप्रबोधनार्थ वादिनमभिमुखीकरोति-व्यङ्गयतैवेति । ते आलंकारिकस्य तव मते अनेन निरुक्तानुमानाख्यप्रमाणेनेत्यर्थः । कथं रसे शृङ्गारादौ व्यङ्गयतैव व्यञ्जनावृत्तिमात्रगम्यत्वमितियावत् । सिद्धयतीति शेषः । इति वदसि चेत् शृण्विति संबन्धः । सावधानो भवेति भावः ॥ ६१ ॥ तदेवानुमानं स्फुटयति-वस्त्वाद्येवेति । आदिपदेनालंकारः । अनेन पक्षः कथितः । अभिधादीति । अत्रादिना लक्षणा । एतेन साध्यं बोधितम् । रसादीति । अत्र त्वादिपदाद्भावा दिसंग्रहः । रसभावादिभिन्नत्वादित्यर्थः । एवंच हेतुः सिद्धः । यथा घटादीतिदृष्टान्तः। अत्र निरुक्तरसे । अयमाशयः-रसोऽलंकारोवस्तु चेति त्रिविध एव काव्यार्थः । तत्र वस्त्वलंकारयोस्तावच्छक्तिवृत्तिप्रतिपाद्यत्वमपि भवति क्वचिल्लक्षणावृत्तिप्रतिपाद्यत्वं व्यञ्जनावृत्तिप्रतिपाद्यत्वं च । रसस्य तु केवलं व्यञ्जनावृत्तिप्रतिपाद्यत्वमेव। शक्तिलक्षणयोस्तत्रासामर्थ्यात् । नहि रसपदशक्त्या सामान्यतः शृङ्गारादिपदशक्त्या वि. शेषतो वा रसोद्बोधः संभवति। रसपदार्थज्ञानेऽपि तत्स्वरूपानुभवानुदयात् । अत एव न लक्षणयापि।सा हि तात्पर्यानुपपत्त्या रसपदार्थ शृङ्गारादिपदार्थमात्रं वा बोधयेत् । नतु तत्वरूपमनुभावयेत् । व्यञ्जना तु 'गच्छ गच्छसि चेत्कान्त' इत्यादौ रसादिपदशक्त्या विनैव श्रोतुर्मनसि शृङ्गारादिरसमाविर्भाव्य प्रत्यक्षीकरोतीति सर्वानुभव सिद्धमेव । तस्माद्युक्त एवायमुक्तसाध्यसाधकः प्रयोग इति । ननु ब्रह्मणि निरुक्त हेतुसत्वात् 'यतो वाचो निवर्तन्ते' इति श्रुतेः साध्याभाववत्त्वाच हेतोः साधारण्य मिति चेन । सर्वत्राद्वैतशास्त्रे तस्य लक्षणावृत्तिबोध्यतायाः शतशः समुद्घोषितत्वात् । नच वस्त्वादीत्यत्रादिपदेनालंकारवद्रसाद्यपि कुतो न वादिना गृह्यतेति वाच्यम् । एवकारेण रसाद्यन्यत्वत इति हेतुना च तस्य व्यावत्तत्वात् । अत्रैवं स्फुटः प्रयोगः-वस्त्वलंकारावेव शक्तिलक्षणाव्यञ्जनागम्यो रसभावतदाभासभावशान्तिभावोदयभावसंधिभावशबलतान्यत्वात् घटादिवदिति । तथा रसाद्यष्टकं व्यञ्जनामात्रगम्यम् रसाद्यष्टकत्वात् व्यतिरेके वस्त्वादिवति च ॥ ६२ ॥ तत्र सत्प्रतिपक्षत्वं हेतोराशङ्कते-रसादिरिति । अत्र पक्षादि स्पष्टमेव । तत्खण्डनं प्रतिजानीते-नेतीति । इति निरुक्तरीत्या अस्य अनुपदमुक्तस्य रसाद्यन्यत्वादिति हेतोः सत्प्रतिपक्षत्वं साध्याभावसाधकहेत्वन्तरवत्वलक्षणं पूर्वोक्तरीत्या अव्याप्तत्वं एतनामकप्रथमहेत्वाभासत्वं न नैव उच्यत