SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पूर्वार्ध - साहित्यसारम् । संक्षेपेणायमनुमाप्रकारस्तु निरूपितः। व्यङ्गयतैव रसेऽनेन कथं त इति चेच्छणु ॥ ६१॥ अतिव्याप्तत्वं व्यभिचारिखम् । असंभूतत्वं संभवाभावशालित्वम् । तथाचैते. वेवाने कान्तादीनां सर्वेषामपि हेत्वाभासानां यथायथमन्तर्भावो बोध्यः । तद्यथा पर्वतो वह्निमान्प्रमेयत्वादिति साध्याभाववद्वृत्तिलक्षणस्य साधारणानेकान्तिकस्य भतिव्याप्तेऽन्तर्भावः प्रमेयत्वस्य वह्निमत्त्वहीने जलहदे सत्वेन साध्यवदन्यवृ. त्तित्वरूपव्यभिचारित्वात् । शब्दो नित्यः शब्दत्वादिति सर्वसपक्षव्यावृत्तिपूर्वकपक्षमात्रवृत्तिलक्षणस्य असाधारणस्य तस्य अव्याप्तेऽन्तर्भावः शब्दत्वस्य शब्दमात्रवृत्तित्वेन सपक्षवर्तिवहीनतया व्याप्तिविधुरत्वात् सर्वमनित्यं प्रमेयत्वादियन्वयव्यतिरेकदृष्टान्तरहितत्वलक्षणस्यानुपसंहारिणश्च तस्य तत्रैवान्तर्भावः । प्रमेयवे हि सर्वस्यापि पक्षवेन अन्वयेन व्यतिरेकेण वा सपक्षताघटकस्य कस्याप्यभावेन व्याप्तिवधुर्यतादवस्थ्यात् । शब्दो नित्यः कृतकत्वादिति साध्याभावव्याप्यस्य विरुद्धस्यापि तत्रैवान्तर्भावः । कृतक-वस्य च साध्याभावेनानित्यत्वेन व्याप्तत्वात्सपक्षराहित्येन व्याप्तिविधुरत्वादेव शब्दो नित्यः श्रावणवादिति साध्याभावसाधकत्वहेत्वन्तरवतः सत्प्रतिपक्षस्याप्यत एवात्रैवान्तर्भावः । यदि शब्दो नित्यः पदार्थत्वादिति प्रयोगस्तदा साधारणानेकान्तिकोत्तरीया अतिव्याप्तेस्त्वन्तर्भावः । शब्दः अनित्यः कार्यत्वाद्धटवदिति साध्याभावसाधकहेत्वन्तरस्योभयत्रापि सत्वात् गगनारविन्दं सुरभि अरविन्दत्वादित्याश्रयासिद्धस्य कुड्यचित्रन्यायेन संभवाभावशालित्वादसंभूतेऽन्तर्भावः । शब्दो गुणश्चाक्षुषत्वादिति खरूपासिद्धस्याप्युक्तहेतोरेव तत्रैवान्तर्भावः । पर्वतो धूमवान् वह्निमत्त्वादि यस्य सोपाधिकाख्यस्य व्याप्यत्वासिद्धस्यातिव्याप्तेऽन्तीवः। उपाधिस्तु साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वरूपसाध्यव्यापकत्वे सति साधनवनिष्ठासन्तभावप्रतियोगित्वरूपसाधनाव्यापकत्वलक्षण एव । सचेहार्दैन्धनसंयोगः वह्निमत्त्वस्य धूमवत्त्वशून्ये अयोगोलके अतिव्याप्तत्वाद्युक्त एवास्य तदन्तर्भावः । उपलक्षणमिदं यावदुपाधिविशेषाणामपि । ते च दीपिकादौ प्रसिद्धा एव । ते च यथायथमव्याप्तादावेवान्तर्भाव्याः ग्रन्थगौरवभियेह नोपन्यस्ताः । वह्निरनुष्णः द्रव्यत्वादिति प्रमाणनिश्चितसाध्याभावत्वरूपस्य बाधितस्यासंभूतेऽन्तर्भावः । यद्यण्यत्र द्रव्यत्वं वर्तत एव तथापि तत्साध्यानुष्णत्वस्य प्रत्यक्षविरोधेनासंभवात् । एवं यद्यन्येऽपि क्वचिद्धेत्वाभासा उपलभ्येरंश्चेत्तेषामपि यथासंभवमत्रैवान्तर्भावो निरुक्कदिशैवोह्यः । नचायमन्तर्भावोऽनुचित एवेति वाच्यम् । लाघवाद्वाधकाभावाच । यदि प्राचीनैः सह वैमत्यमेव तदिति। तन्न । तदाशयस्यैवोक्तसरण्या विवृतत्वात् 'युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपि' इति न्यायाच्च । तस्माद्युक्तमेवोक्तं वर्मेति सहृदयधुरीणैर्विभावनीयमिति दिक् ॥ ६० ॥ एवमुक्तानुमानप्रकारमुपसंहरति-संक्षेपेणेति । खल्पग्रन्थेने यर्थः । अनुमेति । अनुमायाः अ
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy