SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ अश्ववररत्नम् ५] सरसामोदव्याख्यासहितम् । १७५ सिषाधयिषया हीनः सिद्ध्यभावोऽस्ति यत्र सः । पक्षस्तद्वृत्तिताज्ञानाजायतेऽनुमितिध्रुवम् ॥ ५८ ॥ पर्वतो वह्निमान्धूमवत्त्वाद्यद्वन्महानसः। इत्यादिस्तत्प्रयोगः स्यात्परार्थमनुमा यदि ॥ ५९॥ हेत्वाभासस्त्रिधैव स्यादव्याप्तः प्रथमस्ततः। अतिव्याप्तो द्वितीयः स्यादसंभूतस्तृतीयकः॥ ६० ॥ कादौ सूरिसहस्रैरप्यतिविततं रोमन्थितमेवेत्युपरम्यते ॥ ५७ ॥ भवत्वेवं व्याप्तिस्तत्रापि पक्षताज्ञानं विना व्याप्तिविशिष्टपक्षधर्मज्ञानरूपः पूर्वोक्तपरामर्शः कथं बुद्धिमधिरुहेदतस्तां लक्षयति-सिषाधयिषयेत्यादिना सिद्ध्यभाव इत्यन्तेन । सिसाधयिषा साधितुमिच्छा तयेत्यर्थः । हीन इति । हीनः शून्यः यः सिद्धेरभावः स तथेत्यर्थः । तस्मात्साधनेच्छाभावपूर्वकसिद्ध्यभावः पक्षतेति तल्लक्षणं सिद्धम् । एवंच वह्नः प्रयक्षसत्त्वेऽपीच्छया तदनुमानं भवत्येव । उक्तलक्षणपक्षताविशिष्टपक्षत्वस्य तत्र सत्त्वात् । तथाहि यथा उत्तेजकाभावविशिष्टमण्यभाव एव दाहहेतुः न केवलमण्यभावः । कुतः मणिसत्त्वेऽप्युत्तेजकसत्त्वे दाहदर्शनात्तद्वत्साधनेच्छाभावविशिष्टसियभाव एव पक्षता नतु सिद्धयभावमात्रं, कुतः सिद्धिसत्वेऽप्यनुमित्सायामनुतिदर्शनादिति । नचैवं तर्हि सिषाधयिषाभाव एवास्तु पक्षतेत्यपि शङ्कयम् । तथात्वे प्रत्यक्षेऽपि वह्नावनुमित्सां विनाप्यनुमित्यापत्तेः । तास्तु सिसाधयिषैव पक्षतेति चेन । तां विनापि घनगर्जितेन मेघानुमानदर्शनात् । ततः साध्वेवेदं तल्लक्षणमिति संक्षेपः । एवं पक्षतालक्षणमभिधाय तद्वत्त्वं पक्षत्वमित्याह-अस्तीत्यादिना पक्ष इत्यन्तेन । अत एवोक्तपक्षवृत्तिनिरु क्तव्याप्तिविशिष्टधर्मज्ञानलक्षणपरामर्शादेवानुमितिर्भवतीत्युपसंहरति-तद्वत्तितेत्यादिशेषेण ॥ ५८ ॥ ननु खार्थ यद्यनुमानं चेत्तदैवं परामर्शमात्रेण स्यादेव ततोऽनुमित्यात्मकबोधोदयः, परंतु यदि परो बोध्यश्चेत्तदा कस्तत्रोपाय इत्यतस्तत्प्रयोगं कथयति-पर्वत इति । यदि परार्थ परस्मै इति परार्थ अन्यप्रबोधनार्थमिति यावत् । अनुमा अनुमानं क्रियत इति शेषः । तहीति पूर्व योजयित्वा तदने पर्वत इत्यादिपादत्रयं यथाश्रुतमेव योजनीयम् । आदिपदादन्येऽप्येवंजातीयकाः श्रीकृष्णः परमेश्वरः महामायानियन्तृत्वाद्ब्रह्मादिव्यामोहकत्वाचेयादिसदनुमानप्रयोगाः । उपनयाद्यवयवान्तरस्य त्वर्थसिद्धत्वान्नैव तत्कथनापेक्षापि ॥ ५९ ॥ ननूक्तरूपं सदनुमानमेवे यत्र किं प्रमाणमित्याशङ्कय सद्धेतुत्वमेवेत्यभिसंधाय 'तत्त्वं च निर्दुष्टत्वं दुष्टत्वं तु यादृशपक्षसाध्यहेतौ यावन्तो दोषास्तावदन्यान्यत्वं हेत्वाभासत्वम्' इति मुक्तावल्युक्तदिशा हेत्वाभास एव पर्यवस्यतीति सव्यभिचाराद्यपरनामकानेकान्तादिभेदेन सामान्यतः पञ्चधा प्रसिद्धानपि तानेतेष्वेवान्तभूतानाकलय्य लाघवादव्याप्तादिभेदेन त्रिविधानेव तान्भनयन्तरेणाभिधत्ते-हेत्वाभास इति । तत्र अव्याप्तत्वं व्याप्तिविधुरत्वम् ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy