SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ अश्ववररत्नम् ५ ] सरसामोद व्याख्यासहितम् । न पो भावनिष्टत्वात्तस्य तच्छेषतां गतौ । द्वितीयपञ्च तत्राप्याद्योऽर्हत्वाद्विविच्यते ॥ ५३ ॥ अनुमित्याख्यबोधस्य करणं ह्यनुमानकम् । सा परामर्शजा यस्मात्तस्माज्ज्ञेयं स एव तत् ॥ ५४ ॥ व्याप्तिमत्पक्षधर्मत्वज्ञानलक्षण एव सः । यथाद्रिरग्निना व्याप्यधूमवानिति धीः खलु ॥ ५५ ॥ यावत् । स्पष्टमेवान्यत् ॥ ५२ ॥ एवमनुपलब्धिप्रमाणाख्यं षष्ठमपि पक्षं निरस्वावशिष्टावनुमानार्थापत्त्याख्या द्वितीयपञ्चमपक्षावनूय तयोर्मध्येऽनुमानस्य प्रायः सर्वत्रोपयोगात्तद्विवेचनं प्रतिजानीते - न षष्ठ इति । योग्यानुपलब्धिरुक्तेऽर्थे प्रमाणमिति षष्ठोऽपि पक्षो नैव संभवतीत्यर्थः । तत्र हेतुमाह - अभावनिष्ठत्वादिति । उक्तानुपलब्ध्याख्यप्रमाणस्य अभावमात्रविषयत्वादुक्तरसे व्यञ्जनामात्रगम्यत्वधर्मत्वस्य तु भावत्वान्न तेन तत्सिद्धिरित्यर्थः । नच रसे व्यञ्जनेतरगम्यत्वाभाव एवास्तु प्रमेयस्तथाच कुतो नोक्तप्रमाणगम्यत्वं तस्येति वाच्यम् । रसस्यैवाद्याप्यसिद्धत्वात् । तत्सिद्धिं विना कुतस्तत्रोक्ताभावः सिद्ध्येत् । नच मन्मते व्यञ्जनावृत्तिमात्रगम्यत्वेन रसः सिद्ध एव । तथा च किमिति तत्र नोक्ता - भावो निरुक्तप्रमाणप्रमेयः स्यादित्यपि शङ्कयम् । तस्यैव परीक्ष्यमाणत्वात् । उक्त रससिद्धौ तत्रोक्तरीत्या निरुक्ताभावसिद्धिः, निरुक्ताभावसिद्धौ व्यञ्जनामात्रगम्यत्वेनोक्तरससिद्धिरित्यन्योन्याश्रयाच्च । तस्मान्न किंचिदेतत् । तत् तस्मात् शेषतां गतौ पक्षचतुष्टयबाधेनावशिष्टावित्यर्थः । आद्यः अनुमानपक्षी द्वितीयाख्यः अर्हत्वात्सर्वत्र भूर्युपयुक्तत्वेन प्रत्यक्षवदेव मान्यत्वादिति यावत् । शिष्टं स्पष्टमेव ॥ ५३॥ तत्रादावनुमानं लक्षयति - अनुमित्याख्येति । एवं चानुमितिकरणत्वमेव तल्लक्षणम् । हिरवधारणे । बोधपदं स्पष्टत्वार्थम् । भवत्वेवं तलक्षणं तथापि किं तत्स्वरूपमित्याशङ्कां शमयति - सेति द्वितीयार्धेन । स्थाणुर्वा पुरुषो वेति संशयोत्तरं करचरणादिपरामर्शजन्ये पुरुषोऽयमिति प्रत्यक्षे यद्यपि परामर्शजन्यत्वमस्त्येव तथापि सिषाधयिषयेत्या दिनानुपदमेवाग्रे पक्षतालक्षणसंक्षेपेणोक्त परामर्शजन्यत्वविवरणोक्त्या तत्परिहारस्य करिष्यमाणत्वान्न काप्यनुपपत्तिः । स एव परामर्श एव तत् अनुमानं ज्ञेयमिति योजना ॥ ५४ ॥ नन्वेवमपि न तत्स्वरूपनिर्णय इत्यत आह-व्याप्तीति । तथाच व्याप्तिवैशिष्टये सति पक्षधर्मताज्ञानत्वं परामर्शस्य लक्षणमपि संक्षिप्तम् । पाषाणमयोऽयं पर्वत इति । ज्ञानेऽतिव्याप्तिवारणाय सत्यन्तम् । यद्वा अगृहीतव्याप्तिकस्यापि धूमज्ञानमात्रेणानुमित्यापत्तिरतस्तत् । तावति कृते वह्निव्याप्यं धूमत्वमिति ज्ञाने व्यभिचारस्ततः समुदितमेवोपादेयम् । उक्तं हि मणिकारैः — ' तत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः' इत्यनुमितिलक्षणे । न चैतावता परामर्शलक्षणे किमागतमिति वाच्यम् । व्याप्तीत्यादिज्ञानान्तग्रन्थेन तस्यैव लक्षितत्वात् । नोचेत्त १७३
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy