SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १७२ साहित्यसारम् । षष्ठं प्रमाणमेतेन किंवा साध्यवसीयते । नाद्योऽन्तरिन्द्रियस्यात्र सत्वेऽपि स्वरसे पुनः ॥ ५१ ॥ अन्यत्राभावतस्तस्य न तृतीयो समत्वतः । श्रुतिस्मृत्यादिरूपस्यत स्याभावान्न तुर्यकः ॥ ५२ ॥ [ पूर्वा अभावस्य योऽनुभवः स एव अभावानुभवमात्रं तत्तथा तत्रेत्यर्थः । यदित्युतरार्ध तु निगदव्याख्यातम् ॥ ५० ॥ षष्ठमिति । सारसस्य व्यञ्जनावृत्तिमागम्यता किंवा अध्यवसीयते निश्चीयते किंत्वयेति वदेत्यन्वयः । इह विज्ञानेत्यादिश्लोकेन योग्यानुपलब्धिलक्षणमपि संक्षिप्तम् । तथाहि येनेन्द्रियेण यद्वस्तु गृह्यते तेनेन्द्रियेण तद्गतसामान्यं तत्समवायस्तदभावश्च गृह्यत इति तर्ककौमुदीवचनाद्धादिप्रमाकरणजन्याभावानुभूतिसाधकतमत्वं योग्यानुपलब्ध्याख्यषष्टप्रमाणस्य लक्षणमिति । उक्तहि वेदान्तपरिभाषाकृद्भिः - 'ज्ञानकरणजन्याभावानुभवासाधारणं कारणमनुपलब्धिप्रमाणम्' इति । ननु तार्किकैरर्थापत्तियोग्यानुपलब्धिप्रमाणयोः पृथक्प्रामाण्यं नैवोररीक्रियते व्यतिरेकानुमानाभावग्राहकेन्द्रियाख्यप्रत्यक्षयोरेव तदन्तर्भावात् लाघवाच्च युक्तमेवैतदतो नैतदुपन्यासोपयोग इति चेत्सत्यम् । शास्त्रदीपिकादावुक्तान्तर्भावखण्डनपूर्वकमनयोः पृथक्प्रामाण्यप्रतिपादनादद्वैतिनामपि व्यवहारे भट्टनयानुसरणेनास्य संगतत्वाच्च । फलमुखगौरवस्य दोषानाधायकत्वान्नोक्तशङ्कावकाशः । विस्तरस्तु तत्रैवानुसंधेयः । ग्रन्थवैपुल्यादिहोपरतमिति दिक् । एवं प्रमाणप्रश्नविकल्पं विधाय तत्र प्रत्यक्षपक्षं निराचष्टे – नाद्यइत्याद्यग्रिमश्लोकचरणान्त त्रिपाद्या । तत्र हेतुमाह - अन्तरिन्द्रियस्येत्यादिशेषेण । अत्र रसस्य व्यञ्जनामात्रगम्यत्वलक्षणे विषये खरसे खनिष्ठश्शृङ्गारादावित्यर्थः । पुनः अन्तरिन्द्रियस्य स्वमनस इत्यर्थः । सत्वेऽपि विद्यमानत्वे सत्यपीतियावत् ॥ ५१ ॥ अन्यत्र स्वेतराधिकरणोत्पन्नशृङ्गारादावित्यर्थः । तस्य निरुक्तस्वान्तःकरणरूपप्रत्यक्षस्येति यावत् । अभावतः अविद्यमानत्वादित्यर्थः । धर्मिणो रसस्य यदि प्रत्यक्षगम्यत्वं स्यात्तदा तन्निष्ठो यो व्यञ्जनावृत्तिमात्र गम्यत्वलक्षणो धर्मस्तस्यापि सत्यां सामग्र्यां तद्वाच्यम् । आदौ तदेव न रसत्वावच्छेदेन संभवतीति किमु वाच्यं निरुक्ततद्धर्मप्रत्यक्षत्व इति कुड्यचित्रन्यायान्न प्रत्यक्षपक्षः संपद्यत इति भावः । एवमुपमानपक्षमपि प्रत्याचष्टे - न तृतीय इति द्वितीयचरणेन । तृतीयः रसस्य व्यञ्जनामात्रगम्यत्व उपमानं प्रमाणमिति पक्ष इत्यर्थः । तत्र हेतु: - असमत्वत इति । पूर्वोक्तलक्षणे रसे सादृश्याभावादित्यर्थः । नहि सादृश्यं विनोपमानं प्रसरतीति नायमपि पक्षः साधीयानित्याशयः । एवमेव शब्दपक्षमपि प्रक्षिपति । श्रुतीत्याद्यवशिष्टार्थेन । तुर्यकः उक्तेऽर्थे शब्दः प्रमाणमिति चतुर्थः पक्ष इत्यर्थः । तस्य शब्दस्येति
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy