SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७१ अश्ववररत्नम् ५] सरसामोदव्याख्यासहितम् । यस्य वाक्यस्य तात्पर्यविषयो नैव बाध्यते । मानान्तरेण संसर्गस्तच्छब्दस्तेन वा वद ॥४८॥ उपमाद्यस्य संबोधादुपपादककल्पनम् । यार्थापत्तिरपि प्रौढं मानं भाट्टे तयाथवा ॥ ४९ ॥ विज्ञानकरणोत्पन्नो भावानुभवमात्रके। यद्योग्यानुपलब्ध्याख्यमसाधारणकारणम् ॥५०॥ पृच्छति-तुल्ये इति । तुल्ये गवादिसदृशे गवयादावित्यर्थः । तत्पदेति । तच्च तत्पदं चेति तथा गवयादिपदमिति यावत् । तस्य यो वाच्यो गवयाद्यर्थस्तस्य भावस्तद्रूपो यो वाक्यार्थः गोसदृशो गवय इत्यादिवाक्यार्थस्तस्य या धीरनुभवः स एव वपुः खरूपं यस्य तत्तथेत्यर्थः । एतादृशं यदुपमानं एतस्मादेव अथवा निणीयते किमिति संबन्धः । शेषं तु प्राग्वदेव । एवं चात्र सदृशे तत्पदवाच्यतारूपवाक्यार्थज्ञानमुपमानमिति तल्लक्षणमपि सूचितं भवति । उक्तं हि जानकी. नाथमित्रैः-'सादृश्य विशिष्टे तत्पदवाच्यत्वरूपवाक्यार्थानुभव उपमानम्' इति ॥ ४७ ॥ अथवा किं शब्दाख्यप्रमाणेन, रसे निरुक्तव्यञ्जनामात्रगम्यत्वं सिद्ध्यतीति पृच्छति-यस्येति । यस्य वाक्यस्य आकाङ्क्षाद्यन्वितपदकदम्बस्य तात्पर्यविषयः तात्पर्यस्य उपक्रमादिषड़िधलिङ्गावधृतवक्राशयस्य विषयः प्रतिपाद्य इत्यर्थः। एतादृशः संसर्गः प्रागुक्तः संसर्गादिक्यिार्थः मानान्तरेण नैव वाध्यते तद्वाक्यं शब्दः भवति तेनेत्यादिप्राग्वदेव योजना। तथा चेह शब्दाख्यप्रमाणस्य प्रमाणान्तराबाध्यतात्पर्यविषयीभूतसंसर्गवाक्यत्वमिति लक्षणमपि सूचितं भवति । यदाहुर्वेदान्तपरिभाषाकाराः–'यस्य वाक्यस्य तात्पर्यविषयीभूतसंसर्गो मानान्तरेण न बाध्यते तद्वाक्यं प्रमाणम् । इति ॥ ४८ ॥ एवं तार्किकादिसंमतप्रमाणचतुष्टये प्रत्येकं विकल्पेन पृष्वाधुना भाट्टसंमते ततोऽप्यधिके अर्थापत्त्यनुपलब्ध्याख्यप्रमाणद्वये क्रमेण तद्वदेव पृच्छति-उपपाद्यस्येत्यादिसार्धद्वाभ्याम् । उपपाद्यस्य दिवाऽभुञ्जानदेवदत्तपीनत्वस्येत्यर्थः । संबोधात्प्रमात्मकज्ञानात् । उपपादकेति । उपपादकं निरुक्तदेवदत्तरात्रिभोजनं तस्य यत्कल्पनं तर्कविषयीकरणमितियावत् । इति या अर्थापत्तिरपि भाटे मते प्रौढम् । 'अन्यथानुपपत्तिश्चेदस्ति वस्तुप्रसाधिका । पिनष्टयदृष्टिवैमसं सैव सर्वबलाधिका' इति श्रीमत्सुरेश्वराचार्यचरणारुणनलिनवार्तिकवचनादद्वैतिनामपि व्यवहारे भट्टनयादतिबलवत्तरमित्यर्थः । मानं प्रमाणं भवति तयाथवेत्यादि यथापूर्वमेव। अत्र पूर्वार्धे तु तल्लक्षणं बोध्यम् । अपिनोक्तमते निरुक्ततार्किकादीष्टप्रत्यक्षादिप्रमाणचतुष्टयस्यापि समुच्चयः सूचितः । अत एवाहुः पार्थसारथिमिश्राः शास्त्रदीपिकायाम्—'अ पत्तिरपि दृष्टः श्रुतो वा अर्थोऽन्यथा नोपपद्यत इत्यर्थकल्पना' इति ॥ ४९ ॥ विज्ञानेति । विशिष्टं प्रमात्मकं यत् ज्ञानं तस्य करणं व्यापारवदसाधारणं कारणं तेन उत्पन्नं प्रत्यक्षादिप्रमाणेनैव जन्यं एतादृशं यदभावानुभवमात्रं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy