SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७० साहित्यसारम्। [पूर्वार्ध तत्रार्थे संप्रयुक्ते यद्विज्ञानं तनुते स्फुटम् । किं तद्रपेन्द्रियेणासौ प्रत्यक्षाख्येन बुद्ध्यते ॥४५॥ किंवा सेव्याप्तिके व्याप्ये पक्षधर्मतया मतिः । या तल्लक्षणकेनानुमानेनैवावधार्यते ॥४६॥ तुल्ये तत्पदवाच्यत्वरूपवाक्यार्थधीवपुः।। उपमानं यदेतस्मादेव निर्णीयतेऽथवा ॥४७॥ ॥ ४४ ॥ तत्र क्रमेण प्रत्यक्षादिषण्णामपि प्रमाणानां प्रत्येकं लक्षणानि संक्षिप्य व्याचक्षाणः सन्नेकैकत्र पृच्छति-तत्रेत्यादिसार्धषभिः। यत् संप्रयुक्ते संतिकृष्टे अर्थे घटादिपदार्थे स्फुटम् । अयं घट इत्याकारकमसंदिग्धमित्यर्थः । विज्ञानं विशिष्टमबाधितं ज्ञानं तनुते विस्तारयति । दृढमुत्पादयतीत्यर्थः । तद्रूपेण निरुक्तलक्षणेन । प्रत्यक्षेति प्रत्यक्षमित्याख्या यस्य तेन । प्रत्यक्षसंज्ञकेनेत्यर्थः। इन्द्रियेण चक्षुराद्यन्यतमेन करणेनेति यावत् । किमिति प्रश्ने । असौ रसस्य व्यञ्जनैकग. म्यता बुद्ध्यते । त्वया ज्ञायत इत्यर्थः । किं प्रत्यक्षमत्र प्रमाणं वदसीत्याशयः । एवंचात्र संनिकृष्टेऽर्थे स्फुटविज्ञानजनकेन्द्रियत्वं प्रत्यक्षप्रमाणलक्षणमपि सिद्धम् । तत्रापीन्द्रियत्वमेव प्रत्यक्षप्रमाणस्य सामान्यलक्षणं, शिष्टं त्विन्द्रियस्यैवेति बोध्यम् । अत्रस्फुटेति संशयस्य, वीति भ्रमस्य च व्युदासः । नच सुखादिप्रत्यक्षज्ञानकरणे मनस्यव्याप्तिः। तत्रापि संनिकृष्ट एव तत्रोक्तज्ञानजनकत्वात् । उक्तं ह्येवमेव शास्त्रदीपिकायां पार्थसारथिमित्रैः-'यत्संप्रयुक्तेऽर्थे विशदावभासं विज्ञानं जनयति तदिन्द्रियमित्युच्यते' इति ॥४५॥ यद्वा निरुक्ते रसस्य व्यञ्जनावृत्तिमात्रगम्यत्वे किमनुमानं तव प्रमाणं संमतमिति पृच्छति-किंवेति । सव्याप्तिके हेतुतावच्छेदकावच्छिन्नाधिकरणे निरवच्छिन्नवृत्तिकाभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यं व्याप्तिरित्यभियुक्तोक्तलक्षणेन साहचर्य नियमरूपव्याप्त्याख्यज्ञानेन सहितं तत्रेत्यर्थः । यस्य व्याप्तिज्ञानं प्राक्संपन्नं भवतीति यावत् । एतादृशे व्याप्ये हेतावित्यर्थः । व्यतिरेके तु साध्याभाव इति यावत् । यथाहुः प्राञ्चः-'अन्वये साधनं व्याप्यं साध्यं व्यापकमिप्यते । साध्याभावोऽन्यथा व्याप्यो व्यापकःसाधनात्ययः' इति । पक्षेति । पक्षस्य सिषाधयिषाविरहविशिष्टसिद्ध्यभावावच्छिन्नस्य यो धर्मस्तस्य भावस्तथा तयेत्यर्थः।या मतिः वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमिति यावत् । तदिति।तत् उक्तज्ञानरूपं लक्षणं यस्य तत्तथा तेनेत्यर्थः । अनुमानेनैव प्रागुक्ता रसे व्यञ्जनामात्रगम्यता किं वा अवधार्यते । किमिति प्रश्ने। वेति विकल्पे । निर्णीयत इति योजना । भो आलंकारिक, भवतेति शेषः । एतेनात्रानुमानस्य व्याप्यवच्छिन्नविषयकपक्षधर्मत्वकरणकज्ञानत्वरूपं लक्षणमप्युक्तं भवति । तथाचोक्तं न्यायसिद्धान्तमञ्जर्याम्'व्याप्तिविशिष्टपक्षधर्मताघटकलघुपदार्थज्ञानमनुमानम्' इति । अधिकं त्वाकरादेव बोध्यं विस्तरभिया नेह प्रपञ्च्यते ॥ ४६ ॥ यद्वा किमुपमानमत्र ते प्रमाणमिति
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy