SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६९ अश्ववररत्नम् ५] सरसामोदव्याख्यासहितम् । तदेवं सगुणीभूतव्यङ्गयैरित्यादिना तथा। सालंकारैरिति प्राचां वचसेदमनन्तधा ॥ ४२ ॥ भवत्वेवं तदानन्त्यं तथाप्युक्तं तु यद्रसे । व्यङ्गयतैव नतु कापि शक्यत्वमिह पृच्छयते ॥४३॥ प्रत्यक्षाद्यक्षपादेष्टान्यतमं मानमत्र ते । अर्थापत्त्यादिभादृष्टान्यतरद्वेति भण्यताम् ॥ ४४ ॥ वस्थ्यमेवेत्याशयेन शङ्कते-यद्येवमिति । वस्तुनः अमुख्यत्वादलंकारस्य मुख्यत्वाद्वस्तना अलंकारध्वनौ न गौणव्यङ्गयत्वं किंतु ध्वनित्वमेवेत्येवं यदि नियम्यते तर्हि वाच्येन शक्तिवृत्तिगम्येन रसेन अलंकृतेर्ध्वनौ तत्त्वं ध्वनित्वं स्यादिति शङ्काग्रन्थार्थः । तत्र समाधत्ते - इतिचेन्नेति । इतिचेदिति पदद्वयं निरुक्तशङ्कानुवादार्थम् । कुतो नेदं वाच्यमित्यत्र हेतु:-अस्येत्यादिना । अस्य रसस्य । यदि रसस्य वाच्यत्वं यदि वा अलंकारादमुख्यत्वं स्याच्चेद्धटेतेयमाशङ्कापि । तदेव नास्तीति कुड्यचित्रन्यायानैतत्प्रश्नस्यापि संभव इति भावः । उक्तं हि काव्यप्रकाशे 'तस्य नित्यव्यङ्गयत्वम्' रसादिलक्षणस्त्वर्थः स्वप्नेऽपि न वाच्यः' इति । विस्तरस्तु काव्यप्रदीपादौ बोध्यः ॥ ४१ ॥ उपसंहरति-तदेवमिति । इदं गौणव्यङ्गयम् – 'सगुणीभूतव्यङ्गयैः सालंकारैः सह प्रभेदैः खैः। संकरसंसृष्टिभ्यां पुनरप्युद्योतते बहुधा' इति काव्यप्रकाश एव ध्वनिकृतः, तथा 'सालंकारैर्ध्वनेस्तैश्च योगः संसृष्टिसंकरैः' इति तत्कारिकाकारस्य च वचनेन तदानन्त्यं ज्ञेयमिति ॥४२॥ अथोक्तानन्त्यमङ्गीकृत्य प्रागुक्तं रसस्य व्यञ्जनावृत्तिमात्रगम्यत्वमनूद्य तत्र प्रष्टुं प्रतिजानीते-भवत्विति । एवं निरुक्तरीत्या तदानन्त्यं तस्य गौणव्यङ्गयाख्योत्तमकाव्यस्य यत् आनन्यं असंख्यातभेदभिन्नत्वं तद्भवत्विति संबन्धः । नैवात्र वयं विवदामह इति भावः । तथापि एवं तदानन्त्यसत्वेऽपि तु पुनः यदुक्तं रसे व्यङ्ग्यतैव नतु क्वापि शक्यत्वमिति इह अस्मिन्नशे पृच्छयते मया प्रश्नः क्रियत इति योजना । व्यञ्जनामात्रगम्यत्वं अस्य नित्यव्यङ्ग्यत्वनिर्णयादित्युक्तं यत्तदिह विचारे क्रियमाणे नैव संभवतीति भावः ॥ ४३ ॥ तत्र किं मानमिति पृच्छंस्तार्किकसंमतप्रत्यक्षादिप्रमाणचतुष्टयवादे मीमांसकसंमततत्सहितार्थापत्त्यादिप्रमाणषट्कवादे च विकल्पयति-प्रत्यक्षादीति । अक्षपादो गौतमः तस्य यानीष्टानि प्रत्यक्षं आदि येषां तानि प्रत्यक्षादीनि तानि च तान्यक्षपादेष्टानि गौतमसंमतानि 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति तत्सूत्रान्मानानि तेषां मध्ये अन्यतममित्यर्थः । अत्र निरुक्तविषये ते तव मानं संमतं किमस्ति, यद्वा अर्थापत्त्यादीति । आदिपदाद्योग्यानुपलब्धिः । अनयोर्मध्ये अन्यतरद्वा अत्र ते मानं संमतं किंचिदस्तीति भण्यतामुच्यतामित्यन्वयः १५
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy