________________
१६८
साहित्यसारम् ।
[पूर्वार्धे अलंकारस्य रसवन्मुख्यत्वादुक्ततद्धनौ । न गौणव्यङ्ग्यता वाच्यवस्तुनस्तदभावतः ॥ ३९ ॥ अलंकृत्या त्वलंकारध्वनौ सास्त्येव यत्तदा । वाच्यस्योत्कटता योगो गौणं व्यङ्गयप्रयोजकः॥४०॥ यद्येवं तर्हि वाच्येन रसेनालंकृतेर्ध्वनौ ।
तत्वं स्यादिति चेन्नास्य नित्यव्यङ्ग्यत्वनिर्णयात् ॥ ४१ ॥ अलंकृतीति । अलंकारध्वनीन्विना अन्येऽपि भेदा विज्ञेया इति पूर्वेणान्वयः । तदुत्तं ध्वनिकृता—'व्यज्यते वस्तुमात्रेण यदालंकृतयस्तदा । ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात्' । इति । ध्वन्यङ्गता ध्वनिव्यवहारहेतुता तासां निरुक्तालंकृतीनां काव्यवृत्तेः काव्यजीवनस्य तदाश्रयात् । 'रसालंकारमुख्यत्वभेदेनेदं भवेद्विधा' इत्यादिप्रथमोक्तरीत्या अलंकारावलम्बित्वादित्यर्थः ॥ ३८ ॥ ननूक्तप्रतिप्रसवे को हेतुस्तत्राह–अलंकारस्येति । रसालंकारेत्यायुक्तपद्धत्या अलंकारस्य रसवन्मुख्यत्वात्प्रधानत्वाद्धेतोरुक्ततद्धनौ निरुक्तवस्तुनालंकारध्वनौ गौणव्यङ्गयता न भवतीति योजना । नचैवं तर्हि वस्तुनोऽप्यस्तु मुख्यत्वमिति वाच्यम् । वस्तुमात्रापेक्षया अलंकारस्य चारुत्वनियमादिति काव्यप्रदीपोक्तस्तथानुभवाचेत्याह-वाच्येति । वाच्यं यद्वस्तु तस्येत्यर्थः । तदभावतः मुख्यत्वाभावाच उक्ततद्धनौ न गौणव्यङ्गयतेति हेत्वन्तरमपि दाार्थ पूर्वत्रैव बोध्यम् । अयमाशयः-वस्तुनालंकारध्वनिः गौणव्यङ्गयत्वाभाववान् रसस्येवालंकारस्याप्याह्लादकत्वेन मुख्यत्वात् । उभयामुख्यीभूतलोककथाभिधवस्तुभिन्नत्वाच रसध्वनिवदिति प्रयोगः पर्यवस्यति । प्रतिबन्दीकृतवस्तुनश्चारुत्वनियमाभावस्योक्त्या तन्मोचनेनेति ॥ ३९ ॥ ननु भवत्वेवं वस्तु. नालंकारध्वनने गौणव्यङ्गयत्वाभावस्तथाप्यलंकारेणैव यद्धनने तु किं गौणव्यङ्गयता उत ध्वनित्वमेव । नाद्यः । तथात्वे वस्तुनालंकारध्वनावपि विशेषाभावात्तदापत्तेः । नान्त्यः । प्रतिज्ञाभङ्गप्रसङ्गादिति चेदाद्यमङ्गीकृत्य द्वितीयं परिहरति-अलंकृत्या त्विति । तुशब्दः पुनरर्थे । अलंकृत्या अलंकारध्वनौ सा गौणव्यङ्ग्यता अस्त्येव । एवकारः पूर्वान्वयी । तेन गौणव्यङ्गयतैवास्ति नतु ध्वनित्वमित्यर्थः । तत्र हेतुः । यदित्यादिना । यद्यस्मात्तदा तस्मिन्नववसरे । गौणेति । गुणीभूतव्यङ्गयत्वापादकः वाच्यस्य शक्यस्यालंकारस्य । उत्कटेति । मुख्यत्वयोगः निरुक्तरीत्या व्यङ्ग्यालंकारापेक्षया वाच्यालंकारस्य अधिकचमत्कारित्वेन प्राधान्यसंभवोऽस्त्येवेत्यनुकृष्यान्वयः ॥ ४० ॥ ननु भवत्वेवमलंकारेणालंकारध्वनौ व्यवस्था तथापि रसेनालंकारध्वनौ तु किं गौणव्य. गयत्वमाहोस्वित् ध्वनित्वम् । अन्त्ये प्रतिज्ञाभङ्गः । आये यथावस्त्वपेक्षया अलंकारस्य मुख्यत्वात्तेन तद्धनौ न गौणव्यङ्गयता किंतु ध्वनित्वमेवेत्यधुनैवोपपादितं तद्वद्रसापेक्षयापि तन्मुख्यत्वं केन वार्यते । बाढमितिचेत्पुनस्ताद