SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अश्ववररत्नम् ५] सरसामोदव्याख्यासहितम् । १६७ गुरुपादनखोद्योतैर्जाड्यं चिन्तामणौ गतम् । तदङ्गल्येकसर्वस्वः स्वर्दुमः कल्पपादपः॥ ३७॥ भेदास्त्वेतस्य विज्ञेया अप्यन्ये ध्वनिभेदवत् । विना स्वकविनेत्युक्तिवस्तुनालंकृतिध्वनीन् ॥ ३८ ॥ गुरुपादेति । गुरुपादनखानां उद्योतैः 'प्रकाशोद्योत आतपः' इत्यमरात्तीव्रप्रकाशैरित्यर्थः। जाड्यं जडत्वं, पक्षे 'शिशिरो जडः' इत्यमराच्छैत्यमिति यावत् । तथा वर्द्धमः यतः तदिति। तयोः गुरुपादयोः अङ्गुलयः एकं केवलं सर्वखं किसलयत्वेन परमधनं यस्य स तथा गुरुचरणाङ्गुलिमात्रनिजनिधान इत्यर्थः । अत एव कल्पेति । संकल्पितदानदक्षोऽस्तीत्यर्थः । यद्वा कल्पस्य महासमर्थस्य श्रीगुरोः पादौ पाति खदारुपादुकाद्वारा रक्षतीति तथा बभूवेत्यध्याहृत्य योज्यम् । अत्र पूर्वार्धे गुरुपादयोर्नखावलेरज्ञाननाशकत्वं चिन्तामणितोऽप्यधिकं चिन्तितदातृत्वं च तथोत्तरार्धे मृदुत्वसुरभित्वारुणत्वादि च तदङ्गुलीषु तथा तत्सेवकानामप्यन्याभिलषितदानदक्षत्वादि च ययङ्ग्यं तदुक्तवाच्यार्थादसुन्दरमेव ततोऽधिकचमत्काराजनकत्वादिति लक्षणसंगतिः । ननु प्रागगूढाख्यगौणव्यङ्गयस्य वाच्यचमत्कृत्याख्य स्यैवं लक्षणस्य काव्यभेदस्यास्मिन्नेव रत्ने सप्तमश्लोके निरुक्तत्वादस्य त्वसुन्दरमिति नाममात्रेणैव भेदात्पौनरुक्त्यापत्तिरितिचेन्न । तस्यैतस्य च सामान्येनैक्यावभासेऽपि सूक्ष्मविचारे भूरितरवैलक्षण्यात् । तथाहि वाच्येति सुन्दर इत्यादितल्लक्षकवाक्ये व्यङ्ग्याद्वाच्यातिसुन्दरत्वं वाच्यचमत्कृतित्वमिति तलक्षणं बोधितम् । इह तु यदसुन्दरमित्येतल्लक्षकवाक्ये वाच्यादचमत्कारिव्यअयत्वमसुन्दरत्वमित्येतलक्षणमावेदितमिति कथं नानयोः स्वरूपभेदः । यथा लोके शौक्लयादधिकस्निग्धरसत्वं घृतत्वमथ स्निग्धरसादनधिकशुक्लत्वं नवनीतत्वमिति लक्षणभेदेन तयोर्भेदस्ततस्तदास्वादभेदश्च सुप्रसिद्धस्तद्वत्प्रकृतेऽपि न तो दण्डखण्डिताविति । तस्माद्वाच्यचमत्कृतौ व्यङ्गयार्थापेक्षया वाच्यार्थस्यै. वाधिकचमत्कारकारित्वमसुन्दरे तु व्यङ्गवार्थवाच्यार्थयोरुभयोरपि चमत्काराजनकत्वसाम्यमिति सर्वमवदातम् ॥ ३७ ॥ एवं प्रतिज्ञानुरोधेन गौणव्यङ्गयाख्यस्योत्तमकाव्यस्य संक्षेपः सलक्षणं सोदाहरणं भेदान्प्रपश्य ध्वन्याख्योत्तमोत्तमकाव्यभेदवदस्यापि शक्त्यादिमूलान्भेदानृह्यत्वेन विदधत्तत्र प्रतिप्रसवमप्याह-भेदास्त्विति । निरुक्तभेदविलक्षणभेदान्तरकथनार्थस्तुशब्दः । अपिः समुच्चये । एतस्य निरुक्तगौणव्यङ्गयस्य अन्येऽपि शक्त्यादिमूला भेदाः ध्वनिभेदवत् प्रागुक्तोत्तमोत्तमकाव्याख्यध्वनिविभेदसममित्यर्थः । विज्ञेयाः स्वयमूह्यत्वेन बोद्धव्या इति संबन्धः । ननु किं यावन्तो ध्वनिभेदास्तावन्तोऽप्यस्य ते सन्ति नेत्याह-विनेति । कविश्च तत्कल्पितनेता चेति कविनेतारौ तयोर्ये उक्ती काव्यकर्तृतदूहितनायकवचने इति यावत् । स्वतः स्वभावात्तथा कविनेत्रुक्तिभ्यां च सिद्धं यद्वस्तु कथाजातं तेनेत्यर्थः । जात्यभिप्रायमेकवचनम् ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy