________________
१६६
[पूर्वार्धे
साहित्यसारम् । यत्रैतयोः सम ज्यैष्ठ्यं तुल्यप्राधान्यमस्ति तत् । काक्वाक्षिप्तं तु यद्यङ्गयं तत्तथा यदसुन्दरम् ॥ ३४ ॥ दृमीनां बालशैवालां 5वीचि स्तनचक्रकाम् । के पुंमृगा न धावन्ति तरुण्याख्यतरङ्गिणीम् ॥ ३५॥ नत्वेकान्ते वनान्तेऽहं शान्तः संचिन्तये चितिम् । क्षिप रे मार नाराचान्कान्ताभ्रूचापकुञ्चितान् ॥ ३६॥
एवं गौणव्यङ्गयभेदपञ्चकं प्रपश्येदानीं तुल्यप्राधान्यादितभेदत्रयं संक्षेपेण लक्षयति-यत्रेत्यादिना । एतयोः शक्यव्यङ्गयार्थयोः । ज्यैष्ठ्यं प्राधान्यं काक्वेति यत् व्यङ्ग्यं काकाक्षिप्तं नाम काकन्यथानुपपत्तिसिद्धमेव तत् तथा नाम काका. क्षिप्तसंज्ञं भवति । तु पुनः यत् व्यङ्गयं असुन्दरं वाच्यात् अचमत्कारि तदपि तथा नाम असुन्दरसंज्ञं भवतीत्यन्वयः ॥ ३४ ॥ त्रितयमपि क्रमेणोदाहरतिदृमीनामित्यादित्रिभिः। दृशावेव मीनौ यस्यां सा तथा ताम् । तथा बालेति। बाला एव शैवालं यस्यामित्यादिप्राग्वत् । एवं 5वीचिं ध्रुवावेव वीची लहयौं यस्याम् । किंच स्तनेति स्तनावेव चक्रौ चक्रवाको यस्याम् । स्फुटमन्यत् । अत्र तरुण्यां नदीरूपत्वोक्त्या पुंसु मृगरूपत्वोक्त्या च तां प्रति तत्कर्तृकधावनरूपवाच्यार्थस्य तथा मृगरूपकान्यथापत्तिसिद्धेन तरुण्यां मृगजलनदीवन्मिथ्यावेन किंशब्दाक्षिप्तेन तदधावनशीलधन्यत्वेन च प्रेक्षावद्भिः सर्वथा तदनुराग. स्त्याज्य एवेति व्यङ्गयार्थस्य च चमत्कारजनकत्वसाम्यात्तुल्यप्राधान्यत्वं बोध्यम् । यथावा चन्द्रालोके—'तुल्यप्राधान्यमिन्दुत्वमिव वाच्येन साम्यभृत् । कान्ते त्वदाननरुचा म्लानिमेति सरोरुहम्' इति ॥ ३५ ॥ नत्विति । अहं साधकः शान्तः सन् एकान्ते निर्जने । एतेन विक्षेपहेत्वभावः सूचितः । ईदृशेऽपि वनान्ते नत्वन्तःपुरे । एवंच वैराग्यातिशयो द्योतितः । तत्रापि चितिं ब्रह्म नतु युवतिम् । अनेन विवेकवैपुल्यं व्यज्यते । नतु संचिन्तये । काक्वा न सभ्यगपरोक्षानुभूतिपूर्वकं चिन्तनशब्दितध्यानाख्यवृत्त्येकतानताविषयीकरोमि किम् । अपितु करोम्येव तथेत्यर्थः । अतः रे इति तुच्छतावद्योति संबोधनं मार, 'मदनो मन्मथो मारः' इत्यमरारे कामेत्यर्थः । यद्वा मारयति कामुकान्विनाशयतीति तथा नतु मदन इतियावत् । एतेन कामिदारणनैपुण्यं ध्वन्यते । नाराचान् इन्दीवरादिपुष्पमयांस्त्वच्छरानित्यर्थः । क्षिप मोचयेति योजना । ननु तूष्णीं त्यक्ता बाणाः किं करिष्यन्तीत्यतस्तान्विशिनष्टि-कान्तेति । कान्ता रमणी तस्याः भूरेव चापस्तेन कुञ्चिताः आकर्णमाकृष्टास्तान् । कामिनीकटाक्षलक्षणानिति यावत् । तस्मादुक्तलक्षणे मयि निरुक्तस्मरसायकाः किं करिष्यन्तीति भावः । अत्र चितिं विचिन्तयाम्येवेति व्यङ्गयं काक्वाक्षिप्तं बोध्यम् ॥ ३६॥