SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ अश्ववररत्नम् ५] सरसामोदव्याख्यासहितम् । १६५ शक्यव्यङ्गयार्थयोर्यत्र प्राधान्यं संशयाविलम् । तदेकधैव संदिग्धप्राधान्यमववुध्यताम् ॥ ३१ ॥ माधवं तिर्यगीक्षन्त्या राधया फुल्लमल्लिका । न्यधायि निजधम्मिल्ले पाणिपल्लवरागिणी ॥ ३२ ॥ जयदेवास्तु संदेहे व्यङ्गययोरिदमूचिरे। किं दुर्जनानवेश्यैव सर्पाः पातालमाविशन् ॥ ३३॥ बुधानामपि झटिति दुर्बोधादुक्तलक्षणत्वं बोध्यम् । यथावा चन्द्रालोके–'अस्फुट स्तनयोरत्र कोकसादृश्यवन्मतम् । कुङ्कुमाक्तं स्तनद्वन्द्वं मानसं मम गाहते' इति । मानससरोवगाहस्य कोकधर्मवादत्र तत्सादृश्यं व्यज्यमानमपि गूढमेवेति ॥ ३० ॥ ततः संदिग्धप्राधान्यं लक्षयति-शक्येति । संशयाविलं संशयग्रस्तमितियावत् ॥ ३१ ॥ तदुदाहरति-माधवमिति । माधवं लक्ष्मीरमण नतु कृष्णम् । एतेनाचिन्त्यसौन्दयोंदिगुणमण्डितत्वं द्योत्यते । तियकू कटाक्षेणेत्यर्थः । अनेन गूढानुरागः सूचितः । परकीयात्वेन लोकापवादभीतिश्च । ईक्षन्या पश्यन्या एतादृश्या राधया फुल्लमल्लिकाविकसितं मल्लिकाकुसुमं नतु तत्कलि कापि । एवंच प्रमोदातिशयो ध्वनितः । निजेति । 'धम्मिल्लः संयताः कचाः' इत्यमरान्निजनिबद्धचिकुरनिकुरम्ब इत्यर्थः । न्यधायि गुम्फितत्वेन स्था. पितेति यावत् । अतएव तात्कालिकीं तां वर्णयन्विशिनष्टि-पाणीति । पाणिपल्लवस्य करकिसलयस्य रागोऽरुणिमा यस्यां सा तथा । एतेन तदानीं तत्र विचित्रशोभावत्त्वं व्यज्यते । अत्र लक्ष्मीपति कटाक्षेण वीक्ष्य स्वीये निवद्धकचनिचये प्रोन्मीलितत्य करतलरागारक्तस्य मल्लिकाप्रसूनस्य राधिकाकर्तृकावतंसनवर्णनरूपवाच्यार्थस्यैव प्राधान्यमुताद्य ज्योत्स्याङ्कमल्लिकानिकुन्जे भो श्रीकृहणाहं त्वां विपरीतरतेन तोषयिष्यामीति संकेतादिसूचनलक्षणस्य धम्मिल्लनिप्रकृष्णत्वादिना मलिकायां शुकत्वादिना तस्यास्तदुपरि निधानेन तत्र पाणीत्यादिहेतुद्योतनेन च व्यङ्गयार्थस्य वा मुख्यत्वमित्युभयत्रापि साधकबाधकयोरभा. वात्संदेहः ॥३२॥ निरुक्तसंदिग्धप्राधान्ये मतान्तरमाह-जयदेवा इति । आदरार्थ बहुवचनम् । लक्षणवैलक्षण्यार्थ तुशब्दः । व्यङ्गययोः व्यङ्गथार्थयोरेव संदेहे प्राधान्यसंशये सति इदं संदिग्धप्राधान्याभिधं गौणव्यङ्ग्यभेदमूचिरे चन्द्रालोके प्रतिपादयामासुरिति योजना । तद्यथा-'संदिग्धं यदि संदेहो दैर्ध्याद्युत्पलयोरिव । संप्राप्ते नयने तस्याः श्रवणोत्तंसभूमिकाम्' । टीकाप्यस्य राकागमाख्या । दैर्ध्यादि चोत्पलं चेति द्वन्द्वः । उत्पलपदेनोत्पलसादृश्यम् । तेन श्रवणोत्तंसभूमिकां गते इत्यनेन दैोत्पलसादृश्ययोः कस्य प्राधान्येन व्यङ्गयत्वमिति संदेह इत्यर्थ इति । तदुदाहरति-किमिति । अत्र दुर्जनेष्वनृतवादिखादिना सापेक्षयापि द्विजिह्वत्वाधिक्यलक्षणं व्यङ्गयं प्रधानमुत निरपराधं परापकारित्वलक्षणं तत्प्रधानमिति द्वयोर्व्यङ्गयार्थयोरेव संदेहाल्लक्षणसमन्वयः ॥ ३३ ॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy