SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६४ साहित्यसारम् । [पूर्वार्धे शैवानामपि हास्माकं कथं स्मरशरव्यथा । इति भक्तगिरा गौरीपतिः पुलकितोऽवतात् ॥ २८ ॥ तदस्फुटं विदग्धानामपि यन्न लघु स्फुटम् । एकधैवेदमाबोध्यं गूढव्यङ्गयापराभिधम् ॥ २९ ॥ मनःसत्वे तु विक्षेपस्तदसत्वे लयो ध्रुवम् । तत्सत्वासत्वनिर्मुक्तं मनः शंभोऽस्तु मे सदा ॥ ३०॥ अहिणः पुरातनतरान्सद्यो नवान्कुर्वती याभिः कल्पमहौषधीभिरगदंकारायते भारती' इति । अत्र रसप्रसाद इत्यत्र जलप्रसादरूपोऽर्थो व्यङ्गयः, सच वाच्यायाः कतकक्षोदाम्बुधारोपमाया अङ्गमिति । अत्र वाच्यव्यङ्गयार्थघटकपदयोरेक एव वक्तेत्याद्योदाहरणवं ज्ञेयम् ॥ २७ ॥ द्वितीयमुदाहरति-शैवानामपीति । पदयोजना तु विस्पष्टैव । पूर्वार्धे व्यथेत्युत्तरमस्तीति तथोत्तरार्धे अवतादित्यस्य प्राक्खां मां जगद्वेत्यध्याहारमात्रं कर्तव्यम् । अवतात् रक्षवित्यर्थः । अत्र शैवेति स्मरारेस्तव सेवकानां वच्छत्रुकृता पीडा त्वयैव परिहरणीयेति । अपीति यतः सा पीडा वर्तत एवातः सुतरामिदमनुचितमेव परमेश्वरस्य भवत इति । हा इति अनुक्रोशश्चेत्यादिव्यज्यते । तच्चोत्तरार्धाभिहितार्थस्याङ्गं, नोचेगौरीपतावुक्तपुलकित्वानुपपत्तेः । नचास्य वाच्याङ्गत्वम् । निरुक्तव्यङ्ग्यविना प्रकृतवाच्यव. पुषोऽप्यलाभात् तत्र तु आश्रयीभूयेत्यत्र गुणादिपदद्योतितशान्त्याद्यर्थव्यक्तिं विनापि निरुक्तचतुराननोपमायास्तथा अस्याः संफुल्लेत्यत्र मधुपमालतीवृत्तान्तस्य राधाकृष्णकथां विनापि सिद्धेश्च । अत्र व्यञ्जकपदवकुर्भक्ताद्वाचकपदवक्ता कश्चिदाशीःप्रदाताऽन्य एवेत्यस्य द्वितीयोदाहरणत्वं युक्तमेवेति । यथावा काव्यप्रकाशे-'गच्छाम्यच्युत दर्शनेन भवतः किं प्रीतिरुत्पद्यते किंचैवं विजनस्थयोर्ह. तजनः संभावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसामाश्लिध्यन्पुलकोत्कराञ्चिततनुं गोपी हरिः पातु वः' इति ॥ २८ ॥ अथ क्रमप्राप्तमस्फुटं स्पष्टयति-तदिति । विदग्धानामपि सहृदयानामपीत्यर्थः । लघु शीघ्रम् । किमस्य प्राग्वनानावं नेत्याह-एकधैवेति । आबोध्यं सूरिभिर्विज्ञेयमित्यर्थः । तस्य संज्ञान्तरमप्याह-गूढेति ॥ २९ ॥ तदुदाहरति-मनःसत्व इति । मनसो हृदयाभिधस्य अन्तःकरणस्य यत्सवं विद्यमानत्वं तस्मिन्सतीत्यर्थः । विक्षेपः जाग्रदादिद्वैतावभासो भवतीत्यर्थः । तर्हि निरुक्तविक्षेपोपशमार्थ तदसत्वमेव संपाद्यमिति चेत्तत्रापि दोषं विशदयति-तदसत्व इति । लयो निद्रा । तदुक्तं गौडपादीये—'लीयते हि सुषुप्तौ तन्निगृहीतं न लीयते' इति । तस्माद्धेतोः सत्वासत्वेति सत्खासत्वाभ्यां निर्वचनानहत्वात्तनिर्मुक्तं नाम मिथ्यैव मे मनः शंभो, त्वत्प्रसादेन सर्वदास्तु निरन्तरं ममैवं बोधः स्फुरत्वित्यर्थः । यद्वा असंप्रज्ञातसमाध्यवसरेऽपि मनसो ब्रह्मैकाकारत्वेन सत्वादिशून्यत्वं घटत एवेति तदवस्थमेवाखण्डं भवत्विति । अत्रैवंविधव्यङ्गयार्थस्य
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy