________________
१६३
अश्ववररत्नम् ५] सरसामोदव्याख्यासहितम् ।
श्रुत्यन्तमपि संप्राप्य मलिनात्मैव लौल्यतः ।
मनः पश्याङ्गनापाङ्गस्त्वं चाप्यञ्जनरञ्जनात् ॥ २७ ॥ फलितम् । ननु भवत्वेवं तल्लक्षणं तथापि तद्वैविध्यं केन भेदेनेत्यत आहइदमित्युत्तरार्धेन । इदं वाच्यसिद्ध्यङ्गं गौणव्यङ्ग्यम् । एकेति । एकश्च अन्यः वाच्यार्थं वक्तः सकाशाद्भिनश्चेत्येकान्यौ तौ च तौ वक्तारौ चेति तथा ताभ्यामुक्ते उच्चारिते ये पदे तयोर्गच्छतस्ते तथा तयोर्भावस्तेन या भित्तयेत्यर्थः । अयं भाव:उक्तलक्षणं वाच्यसियङ्गं हि क्वचिद्यो वाच्यार्थस्य वक्ता स एव तत्सिद्धिहेतुभूतव्यङ्गयार्थघटकपदस्यापि वक्ता भवतीति तत्रेदमेकवक्तृगपदवाच्याङ्गसंज्ञकं भवति । अचित्तु वाच्यार्थवक्तुः सकाशादन्य एव कश्चिव्यङ्गयार्थघटकपदवक्ता भवतीति तत्रेदमन्यवक्तकपदवाच्याङ्गसंज्ञकं च भवतीत्येवं धर्मद्वैविध्यात्तस्य द्विविधवं बोध्यमिति । एवमेवोक्तं काव्यप्रदीपे-वाच्यसिद्ध्यङ्गं द्विधा, एककर्तृकपदवाच्यगमन्यकर्तृकपदवाच्यगं चेति ॥ २६ ॥ तत्राद्यमुदाहरति-श्रुत्यन्तमपीति । दं हि मुनुक्षोरेव संस्कारवशात्कामिनीनयनान्तासक्तं स्वचेतःप्रत्येव सोपालम्भं वचः । हे मनः, अङ्गनापाङ्गः कान्ताहगन्तः, खं च श्रुत्यन्तमपि कर्णान्तिकप्रदेनामपि, पक्षे वेदान्तशास्त्रमपि संप्राप्य सम्यक्, पुवशीकरणनैपुण्यपूर्वकं लब्ध्वेबर्थः । पक्षे साधनचतुष्टयपूर्वकं श्रवणमननादिभिरुपेत्येति यावत् । लौल्यतः 'लोलश्चलसतृष्णयोः' इति कोशाचाञ्चल्यात्सतृष्णत्वाचेति क्रमात् पक्षद्वयेऽपि योध्यम् । तथा अञ्जनेति । अखनं कजलं तेन रजनं रङ्गपूरणं तस्मात् , पक्षे अजनवकार्पोत्तमोरूपमज्ञानं तेन रजनं तत्कल्पितशब्दादिविषयेषु परितोषणं तम्मादित्यर्थः । अविद्यामूलकविषयपारवश्यादपीति यावत् । मलिनात्मैव असितरूप एवास्तीति त्वं पश्येति योजना । पक्षे रजस्तमःकलुषितस्वरूपमेवासीति खमेव पश्येति प्राग्वत् । इदमत्राकूतम्–रे मनः, त्वं यदि सौन्दर्यातिशयमारोप्य कान्ताकटाक्षे लुभ्यसि तर्हि मया त्वद्रोधसहस्रेऽपि साधिते त्वं कदाचिन्मां वञ्चयित्वा स्वाभिमतं यास्यस्येवातोऽहमेव लां तदवलोकनेऽनुमोदयामि परंतु यदि वनस्तत्र गुणाधिक्यं स्यात्तदा चक्षुर्व्यवधानमपि तृणीकृय तनिरीक्षणाय यतितव्यमेव तत्तक्तरीत्या नैव पश्यामोऽतस्त्वमात्मानमेव तथानुरागेणानिशं पश्य । यदत्र न चक्षुर्व्यवधानमपीत्युपालम्भध्वननाद्वेदान्तपरिशीलनेऽपि कजलरञ्जिते रक्तमांनमये तरुणीदृगन्तेऽद्य यदि तेऽनुरागस्तर्हि धिगस्तु खां विषयासक्तमविद्याग्रन्तमनुपमरजस्तमोविक्षिप्तं च । तस्मात्सर्वदा सावधानीभूय सर्वथा यावद्वैतरानयागोऽपि संपाद्यः किं पुनः कनककामिन्यादिविषयः स त्वयेति । अत्र श्रुतिपदे वेदः, लोलपदे सतृष्णत्वं, अञ्जनपदे अज्ञानं, रञ्जनपदे परितोषणं चेति अत्यादिशब्दार्था व्यङ्गचास्ते च वर्ण्यधर्मैक्यकथनलक्षणस्य वाच्यस्यैव तुल्ययोगितालंकारस्य सिद्धेरङ्गम् । यथावा काव्यप्रदीपकारस्य–'तादृग्भूतरसप्रसादकतकक्षोदाम्बुधारायिता जीयासुः कविरत्नशाण भवतस्तास्ता वचोभङ्गयः । अर्थानि