SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्ध अस्याः संकुलमालत्याः सौरभ्यसमयेऽप्ययम् । अलिश्चञ्चल एवेति दृष्ट्वा दूति हरिं व्रज ॥ २५ ॥ नर्ते. वाच्यस्य यत्सिद्धिर्वाच्यसिद्धयङ्गमस्ति तत् । इदमेकान्यवक्रुक्त पदगत्वभिदा द्विधा ॥ २६ ॥ मुक्तानां मौक्तिकानां, पक्षे सालोक्यादिमुक्तिं प्राप्तानाम् । एतेनाद्वैतात्मरूपकै`वल्यव्युदासः । अन्यथा ब्रह्मता तु नो प्राप्तेति वक्ष्यमाणासाङ्गत्यापत्तेः विदेहमुक्तानामाश्रयीभवनमद्वैतब्रह्मतां विनानुपपन्नमेव । तस्माद्युक्तमेवोक्तमुक्तपदव्याख्यानमिति । आश्रयीभूय स्वस्मिंस्तद्र्थनात्तदवलम्बी भूत्वेत्यर्थः । पक्षे अध्यक्षीभूयेति यावत् । चतुराननो हि तल्लोकवासिनां सालोक्यादिमुक्तिभाजामीज्य इति प्रसिद्धमेव । अतः सद्वृत्तमण्डले सद्वृत्तयोः सुवर्तुलयोः स्तनयोर्यन्मण्डलं तस्मिन्नित्यर्थः । जात्यभिप्रायेणैव मण्डलमित्येकवचनं, पक्षे सद्वृत्तानां सनकादियोगीन्द्राणां यन्मण्डलं चक्रवालं तत्रेत्यर्थः । स्थितं मुक्ताहारत्वेनावस्थितमित्यर्थः । 'पक्षे पूज्यत्वेनावस्थायीति यावत् । तथा यद्यपि हिरण्यगर्भता हिरण्यानां तन्मयानां मणीनां यो गर्भस्तदन्तर्भागस्तस्य भावस्तथा । सुवर्णमण्यन्तर्वर्तितेत्यर्थः । पक्षे 'हिरण्यगर्भो लोकेशः स्वयंभूचतुराननः' इति कोशाच्चतुर्मुखतेति यावत् । प्राप्ता लब्धा तथापि तु ब्रह्मता नो लब्धेत्यनुकर्षादिकं विधायान्वयः । तस्माद्गुणत्यागं विना तावदद्वैतात्मत्वं नैवोपलभ्यत इति सएव कार्य इति तात्पर्यम् । इह पूर्वा न विधात्रा सह सूचिताप्युपमा तृतीयपादेन वाच्यतां नीता च । तदङ्गं च शब्दशक्तिमूलानुरणनलक्षणोऽयं द्वितीयोऽर्थ इति लक्षणसंगतिः । यथावा काव्यप्रकाशे - ' जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृता लङ्काभर्तुर्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता' इति ॥ २४ ॥ अस्या इति । अक्षरार्थस्तु स्फुट एव । अत्रार्थशक्तिमूलं राधायास्तारुण्येऽपि अलिवत्कृष्णस्तावच्चपलत्वेनास्यामनासक्त एवेति तं प्रबोधयितुं त्वं गच्छेति राधासख्या दूत्या ज्ञाप्यत इति व्यज्यमानं वस्तु भ्रमरमालतीवृत्तान्ताध्यारोपेण तदङ्गतयैव स्थितम् । तथाहि पूर्वोदाहृते भेदाष्टके तावत् व्यङ्ग्यार्थयोरेवाङ्गाङ्गीभावः, अस्मिन्भेदयुगे तु वाच्यर्थव्यङ्ग्यार्थयोरप्यसाविति ज्ञेयम् । यथावा काव्यप्रकाश एव - ' आगत्य संप्रति वियोगविसंकुलाङ्गीमम्भोजिनीं क्वचिदपि क्षपितत्रियामः । एतां प्रसादयति पश्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः' इति ॥ २५ ॥ एवं तददोऽगूढमित्यादि प्राचीनोक्तेरित्यत्र काव्यप्रकाशकारिकाभिहितं गौणव्यङ्ग्यस्याष्टविधत्वं प्रतिज्ञाय तत्रागूढापराङ्गयोर्भेदान्प्रपञ्च्याधुना वाच्यसिद्ध्यङ्गाख्यतद्भेदस्य क्रमागतत्वात्तत्स्वरूपं विवृण्वंस्तद्भेदयुगं सलक्षणं संक्षिपति - नर्त इति । यस्य ऋते विना वाच्यस्य शक्यार्थस्य सिद्धिरन्वयोपपत्तिर्न भवति तद्वाच्यसिद्ध्यङ्गमस्तीत्यन्वयः । तस्माद्वाच्य सिद्धि नियत पूर्ववृत्तित्वं वाच्यसिद्ध्यङ्गत्वमिति तल्लक्षणं १६२
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy