SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अश्ववररत्नम् ५] सरसामोदव्याख्यासहितम् । १६१ सुन्दरीमञ्जमञ्जीरसिञ्जितैर्या टणत्कृतिः। कामचापस्य साऽदेष्टुः पदाभाब्जेक्षणाद्गता ॥ २०॥ शरणीकरणीयोऽसौ रुक्मिणीरमणो नृणाम् । यं दृष्ट्वाग्रेऽर्चितं चैद्यो मद्योन्मत्त इवावदत् ॥ २१॥ स्तम्बरमाननः सोऽव्याद्यन्नाममिहिरोदयात् । विघ्नोलूकाः पलायन्ते स्तब्धीभावं व्रजन्त्यपि ॥ २२ ॥ कान्ताहगन्तकुन्तेन द्रुतं क्लान्तं क्षतं च्युतम् । स्वान्तं येषां गतिस्तेषां त्वमेव मदनान्तक ॥ २३ ॥ आश्रयीभूय मुक्तानां स्थितं सदृत्तमण्डले । हिरण्यगर्भता प्राप्ता गुणेन ब्रह्मता तु नो ॥२४॥ दाहरति-सुन्दरीति । कामेति । आसीदिति शेषः । आदेष्टुरिति च्छेदः । आदिशत्युपदिशतीति तथा तस्य श्रीगुरोरित्यर्थः । पदेति । पदमिव चरण इव आ ईषत् भाति रक्तत्वमृदुत्वादिना शोभत इति तथा तच्च तदनं सरोजं चेति तस्येक्षणानिकटवर्तित्वेनाकस्मात्स्नानादिकाले दर्शनादित्यर्थः । गता कामोपशमादपयातेति यावत् । अत्र पद्मदर्शनाद्गुरुचरणस्मृतिव्यङ्गयगुरुरत्याख्यभावे सुन्दरीक्षणजन्यमोहादिभावस्य शान्तिरङ्गम् ॥ २० ॥ एवं भावस्यैवाझं भावोदया. ख्यमप्युदाहरति—शरणीकरणीय इति । अक्षरार्थस्तु स्फुट एव । अत्र भगवद्रत्याख्यभावस्यैव शिशुपालासूयाभिधभावोदयोऽङ्गम् ॥ २१ ॥ तद्भावस्यैवाझं भावसंधिमप्युदाहरति-स्तम्बरमेति । 'इभः स्तम्बेरमः पद्मी' इत्यमरात्स्तम्बे इक्ष्वादिकाण्डे रमते क्रीडत इति स्तम्बेरमो गजस्तस्याननं यस्य स तथा गजानन इत्यर्थः । सः अव्यात् पायादित्यर्थः । त्वामिति शेषः । कः स इत्यत्राह—यदित्यादिना । यस्य नामैव मिहिरः सूर्यस्तस्योदयादित्यर्थः । यन्नामोच्चारणमात्रेणेतियावत् । विघ्नेति । विघ्ना एव उलूकाः दिवाभीता इत्यर्थः । स्फुटमन्यत् । अत्र भयमूलकपलायनव्यजितावेगस्य तथा तद्विरुद्धायाः स्तब्धी भावपदध्वनितजडतायाश्च संधिरव्यादित्याशी:सूचितशिघ्यादिरतिभावस्याङ्गम् । यथावा काव्यप्रकाशे-'असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो दद्यात्कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः' इति ॥ २२ ॥ एवं तस्यैवाङ्गीभूतां भावशवलतामुदाहरति-कान्तेति । कान्तादृगन्तोऽङ्गनापाङ्ग एव कुन्तो भुशु. ण्डाख्यायुधविशेषस्तेनेत्यर्थः । द्रुतं भीतं क्लान्तं ग्लानिं प्राप्तं क्षतं विद्धं च्युतं मूछितम् । शिष्टं स्पष्टमेव । अत्र क्रमात्रासग्लानिदैन्यापस्माराणां शबलता हररतिभावस्याङ्गम् ॥ २३ ॥ अथ क्रमप्राप्तं वाच्याङ्गभूतं लक्ष्यव्यङ्ग्यक्रमात्मकं शब्दार्थशक्तिमूलं प्रतिज्ञातापराङ्गं गौणव्यङ्गयभेददशकमध्येऽवशिष्टं भेदद्वयं क्रमेगोदाहरति-आश्रयीभूयेत्यादिद्वयेन । गुणेन तन्तुना, पक्षे शान्त्यादिना ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy