________________
१६०
साहित्यसारम् । . [पूर्वार्धे जानक्यधररागेण रक्तं रावणमानसम् । श्रीराम तव बाणेन तेनापि सह शोषितम् ॥ १८ ॥ कौरवः कलयन्नेव कृष्णानयनखञ्जनौ । निधनं गामितो येन कृष्णः पुष्णातु मामसौ ॥ १९ ॥
नीत्वेन खकराद्यङ्गस्य तदीयस्तनादिस्पर्शलाभदौर्लभ्येऽप्यनुनयार्थ प्रणामावसरे खशिरसस्तदनिसरोरुहस्पर्शमात्रेणैव संतोषादित्यर्थः । मिलिन्दायितं भृङ्गवदाचरितमिति संबन्धः । भ्रमरो यथा कमल एव सुगन्धादिलुब्धत्वेन तिष्ठति तद्वद्भगवताप्युक्तानन्दवशात्स्वशिरः श्रीपदकोकनद एव स्थापितमिति तत्त्वम् । अत एवोक्तपादपद्म विशिनष्टि-रागेति । रागो हरिप्रेमा तस्य मन्दिर अगारमित्यर्थः । नन्वधरायझं नायकरागविषयतया वर्णितुमुचितं । चरणे तु तथात्वानौचित्यमेव कविसमये कामशास्त्रे च प्रायेणैवमप्रसिद्धत्वादनुभवपराहतत्वाचेत्याद्यस्वरसश्चेत्तर्येवं व्याक्रियताम् । रागः रक्तिमा । शेषं प्राग्वदेव । एवंच षड्गुणैश्वर्यपरिपूर्णस्य श्रीनारायणस्यापि किमिति पद्मापादपद्मे स्वमस्तकस्थापनपूर्वकमपि प्रणतिप्रवृत्तिरित्युक्तिः प्रत्युक्ता । तस्यास्त्रैलोक्यसुन्दरीत्वात् । अहो यत्पादोऽपि निखिलारुणिमनिलयः किं वाच्यं तदितराङ्गसौष्ठवमिति । पादारविन्दमित्येकवचनं तु मानौत्कट्यरोषादर्धपद्मासनेनैकचरणनखकर्तृकभूलेखनस्वाभाव्यसूचनार्थमेव । शिरसो भ्रमररूपतापि परमादरद्योतनाय मुकुटं समुत्तार्य स्थापितत्वेन तत्केशादिश्यामत्वायुक्तैव । अत्र लक्ष्मीविषयककविरतिरूपे भक्त्य. परनामके भावे देवयोर्विप्रलम्भोऽङ्गम् । यथावा काव्यप्रकाशे—'कैलासालयभाललोचनरुचा निर्वर्तितालक्तकव्यक्तिः पादनखद्युतिगिरिभुवः सा वः सदा त्रायताम् । स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते' इति ॥ १७ ॥ अथ भावस्याङ्गं रसाभासमुदाहरति—जानकीति । अत्र तेनापीति तच्छब्दोदितरक्तेन सह रावणमानसं भो श्रीराम, तव बाणेन शोषितमित्युक्त्या भगवद्विषयकरतिभावे जानक्याः जग. न्मातृत्वेन तद्विषयकरावणानुरागरूपविप्रलम्भशृङ्गारवर्णनस्यानौचित्येनायं रसाभासोऽङ्गम् ॥ १८ ॥ एवं क्रमागतं भावस्याङ्गं भावाभासमुदाहरति-कौरव इति । येन कृष्णेति कृष्णा द्रौपदी तस्याः नयने एव खञ्जनौ चपलत्वादिसाधात्खञ्जरीटौ तौ कलयन् स्मरनेव सन् कौरवः दुर्योधनः निधनं मरणं गामितः गदायुद्धे भीमसेनं प्रति तदूरुरूपमर्मस्मृतिजननेन तद्धस्ततो मारित इत्यर्थः । असौ कृष्णः मां पुष्णात्विति योजना । अत्र भगवद्रत्याख्यभावे द्रौपद्याः पाण्डवपत्नीत्वेन मातृप्रायत्वादुर्योधननिष्ठतनेत्रस्मृतिरूपभावस्यानुचितविषयत्वेनाभास. लात्स तावदमुख्यत्वादङ्गमेव ॥ १९ ॥ अथ भावस्यैवाङ्गीभूतां भावशान्तिमु