________________
अश्ववररत्नम् ५] सरसामोदव्याख्यासहितम् ।
अपि शब्दार्थयोः शक्तिमूले लक्ष्यक्रमात्मके । वाच्यस्याङ्गे दशैवं तत्क्रमाज्ज्ञेयं विपश्चिता ॥ १४ ॥ अस्ति ध्वनिगुणीभूतव्यङ्गययोः संकरादिकम् । स्वभेदाद्यैरथाप्येषां प्राधान्यायपदेशनम् ॥ १५॥ हन्त भो कान्त पञ्चेषो मत्कुचाश्चितकुङ्कुमैः । किर्मीरितं त्वदङ्गं यत्तदद्यानङ्गतां गतम् ॥१६॥ वन्दे पादारविन्दं तदैन्दिरं रागमन्दिरम् ।
मिलिन्दायितमानन्दाद्यत्र मौकुन्दमौलिना ॥ १७ ॥ रसादिभेदाष्टके रसवदाद्यलंकारविशेषभेदचतुष्टयवं विधत्ते-रसस्त्वित्यादि. साधैन । तत्र गुणीभूतव्यङ्गयो रसो रसवदलंकारः, तथैव भावः, प्रेयोऽलंकारः, तयोरुक्तरसभावयोः आभासको रसाभासभावाभासौ, ऊर्जखदलंकारः । तु पुनः भावशान्त्यादिचतुष्कं भावशान्तिभावोदयभावसंधिभावशाबल्यं समाहितोऽलंकारः, इत्युक्तरूपाः रसादयोऽष्टौ रसालंकारनामकाश्चतुर्भेदाः रसवदादिचतुःप्रकाराः स्युरित्यन्वयः । तदुक्तं काव्यप्रकाशे-'एते च रसवदाद्यलंकाराः' इति ॥१२॥१३॥ एवं तद्भेदाष्टकमुक्त्वावशिष्टं भेदयुगं स्पष्टयति-अपीति । शव्दार्थयोः शक्तिमूले लक्ष्यक्रमात्मके लक्ष्यव्यङ्गचक्रमरूपे वाच्यस्य वाच्यार्थस्यापि अङ्गे अपराङ्गाभिधे गौणव्यङ्गये भवत इति संबन्धः । अपिशब्देनात्र पूर्वोक्तरसाद्यष्टकस्य व्यज्यमानरसाद्यङ्गत्वमेव, प्रकृतभेदयुगे तु अभिधीयमानरसाद्यङ्गत्वमपीति द्योति. तम् । उपसंहरति-एवमिति । विपश्चिता विदुषा एवमुक्तरीत्या तत् । अपराङ्गं गौणव्यङ्गय क्रमादनुक्रमेण दश ज्ञेयं दशसंख्याकं बोध्यमिति योजना ॥ १४ ॥ ननु ध्वन्युदाहरणेष्वपि क्वचिद्गुणीभूतव्यङ्गयस्य भेदाथैरेतदुदाहरणेष्वपि तेषां च क्षीरनीरवदस्फुटभानरूपः संकरस्तिलतण्डुलवत्स्फुटभेदभानरूपासंसटिर्वा वर्तत एव, तत्कथं ध्वन्यादिसंज्ञानियम इतिचेत्प्राधान्यादेवेत्याह-अस्तीति। आद्यपदेनालंकारभेदग्रहः प्राधान्यात् अलौकिकचमत्काराविर्भावकधर्मविशेषत्वल. क्षणमुख्यत्वादित्यर्थः । उक्तं हि काव्यप्रदीपे–'प्राधान्यं चातिशयितश्चमत्कारः' इति ॥ १५ ॥ तत्र प्रथमं व्यङ्गयरसस्याङ्गत्वेन गौणं व्यज्यमानरसाख्यमपराग. मुदाहरति हन्तेति । किमीरितं 'चित्रं किमीरकल्माषशवलैताश्च करे' इत्यमराचित्रितमित्यर्थः । इदं हि मदनदाहोत्तरं रतिवचः शोकरूपम् । तत्र प्रथमचतुर्थचरणाभ्यां व्यक्तकरुणस्य द्वितीयादिचरणसूचितः शृङ्गारोऽङ्गमिति ॥ १६ ॥ एवं क्रमागतं भावाङ्गत्वं रसस्योदाहरति-वन्द इति । तत् वक्ष्यमा. णगुणकं ऐन्दिरं इन्दिरायाः इदं लक्ष्मीसंबन्धीत्यर्थः । पादारविन्दं चरणकमलं वन्दे नमस्करोमीत्यन्वयः । अहमिति शेषः । एतेन खस्मिन्नमानित्वादिखाभाव्यं बोधितम् । तत्किम् ।यत्र मौकुन्दमौलिना मुकुन्दस्य विष्णोरयं मौकुन्दः स चासौ मौलि: किरीटश्चेति तथा तेन । भगवन्मस्तकेनेत्यर्थः । आनन्दात् लक्ष्म्यास्तदानीं मानि