SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । तेनैवार्थिकशक्त्युत्थमनु स्वानस्वरूपकम् । किं न स्मरसि रे काम तं त्रिलोचनमीश्वरम् ॥ ९ ॥ अजहल्लक्षणामूलमर्थान्तर गवाच्यकम् । मृगाक्षीणां कटाक्षेण कामिनां विरहे ज्वरः ॥ १० ॥ जहतीमूलमत्यन्ततिरोभूतस्ववाच्यकम् । केचिदेव जगत्यत्र सौजन्यालंकृताः परम् ॥ ११ ॥ अपरस्य रसादेस्तदङ्गं दशविधं मतम् । 1 रसस्तु रसवद्भावः प्रेय आभासकौ तयोः ॥ १२ ॥ ऊर्जस्वद्भावशान्त्यादिचतुष्कं तु समाहितः । चतुर्भेदाः स्युरित्यष्टौ रसालंकारनामकाः ॥ १३ ॥ तेनैवार्थशक्तिमूलमप्युद्दिशति - तेनैवेति । लक्ष्यव्यङ्गयक्रमत्वेनैवेत्यर्थः। आर्थिकेति । आर्थिकी अर्थजा या शक्तिस्तत उत्तिष्ठतीति तथा । अर्थशक्तिमूलमित्यर्थः । अन्विति । घण्टादिनादवद्वाच्यार्थानुरणनरूपमिति यावत् । तदुदाहरति — किमिति । अत्र रे काम, शैवा वयं त्वया न पीडनीया इति व्यङ्गयं वाच्यार्थशक्तिमूलमगूढमेव । यथावा काव्यप्रकाशे – 'अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः । दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी' । अत्र केनाप्यत्रेत्यर्थशक्तिमूलानुखानरूपस्येति ॥ ९ ॥ अथार्थान्तरसंक्रमितवाच्यं लक्षयति - अजहदिति । तदुदाहरति-मृगेति । अत्र कटाक्षेणेति विरहपदतात्पर्यानुपपत्त्या कटाक्षस्मृतिरूपेऽर्थान्तरे संक्रमितवाच्यमजहल्लक्षणयैव । तस्य चोक्त विरहासहिष्णुत्वेन रत्याख्यं व्यङ्गयमसहृदयानामपि वाच्यवगोचर इति ॥ १० ॥ एवमत्यन्ततिरस्कृतवाच्यं लक्षयतिजहतीति । जहल्लक्षणामूलमित्यर्थः । अत्यन्तेति । अत्यन्तं तिरोभूतं तिरस्कृतं स्ववाच्यं नैजशक्यार्थजातं यत्र तदित्यर्थः । तदुदाहरति - केचिदेवेति । अत्रालंकृतपदार्थस्तु 'अलंकारस्त्वाभरणम्' इति कोशाद्भूषणवैशिष्टयमेव शक्यो भवति, सतु सौजन्यपदवाच्ये सुशीलत्वे रत्नकुण्डलाद्याभरणत्वासंभवाद्बाधित एवेति रमणीयत्वं लक्षयति । तेनास्यात्यन्ततिरस्कृतवाच्यत्वम् । व्यङ्गये चास्य निरुक्तालंकारवत्सौजन्यस्यावश्यसंपादनीयत्वं वाच्योपमानमेवेति गुणीभूतमिति लक्षणसंगतिः । यथावा काव्यप्रकाशे – 'उन्निद्र कोकनदरेणुपिशङ्गिताङ्गा गायन्ति मञ्जु मधुपा गृहदीर्घिकासु । एतच्चकास्ति च रवेर्नवबन्धुजीवपुष्पच्छदाभमुदयाचलचुम्बि बिम्बम्' । अत्र चुम्बनस्यात्यन्ततिरस्कृतवाच्यस्येति ॥ ११ ॥ अथ क्रमप्राप्तमपराङ्गाख्यं द्वितीयं गौणव्यङ्गयभेदमुद्दिश्य विशदीकृत्य च तत्प्रकारभेदान्दशविधत्वेन प्रतिजानीते - अपरस्येत्यर्थेन । मतं मंमटभट्टादीनां प्राचामिति शेषः । तानेव भेदानभिधत्ते - रस इत्यादिसार्धद्वयेन । तत्र १५८ [ पूर्वा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy