SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अश्ववररत्नम् ५] सरसामोदव्याख्यासहितम् । व्यक्तव्यङ्ग्यं तु तद्यत्र वाच्याझ्यङ्गयोऽपि नेतरः । सीते कृतधनुर्भङ्गमनङ्गं साङ्गमीक्षय ॥५॥ वाच्यार्थस्यान्यथापत्त्या सिद्धमार्थिकमुच्यते । प्रथमेव द्वितीयापि क्लीबे प्रायेण दृश्यते ॥ ६ ॥ वाच्येतिसुन्दरे व्यङ्ग्याज्ज्ञेयं वाच्यचमत्कृति । अबध्वैव निबध्नन्ति विचित्रा गुणिनां गुणाः ॥ ७॥ लक्ष्यव्यङ्ग्यक्रमत्वेन शब्दशक्तिसमुद्भवम् । सहकारोचितः किं तेऽप्यविकासो वनप्रिये ॥ ८॥ इति बालैरपि श्रद्धेयम् । तस्माद्युक्तमेवोक्तभेदसप्तकम् । एवं तन्येिऽपि रसादयो ध्वनिभेदाः किमित्यत्र नोच्यन्त इत्यत्राह-विप्रकृष्टेति । अन्येषां भेदानां वाक्यार्थव्यवधानेन झटित्यवभासाभावाद्मूढत्वापत्तेरित्यर्थः ॥ ४ ॥ तत्र व्यक्तव्यङ्ग्यं लक्षयति-व्यक्तव्यङ्ग्यं त्विति । वाच्याद्वाच्यार्थात् । व्यङ्गयोऽपि व्यङ्गयार्थोऽपि । तस्य सर्ववाच्याद्भिन्नत्वेन प्रसिद्धत्वेऽपि यत्र वाच्यतुल्य एव व्यङ्गवार्थस्तव्यक्तव्यङ्गयमगूढं गौणव्यङ्ग्यमित्यर्थः । एवमग्रेऽपि ज्ञेयम् । तदुदाहरति-सीत इति । अत्र सखीकर्तृकः सीतां प्रति श्रीरामवरणानुकूल: शौर्यसौन्दर्याद्यनन्तसद्गुणपरिपूर्णस्य तस्य सादरावलोकनोपदेशो व्यङ्गयः । स तावद्वाच्यार्थानतिरिक्त एवेति लक्षणसमन्वयः । यथावा-'दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम् । तिरश्चकार भ्रमरावलीढयोः सुजातयोः पङ्कजकोशयोः श्रियम्' इति ॥ ५ ॥ आर्थिक लक्षयति-वाच्येति । तदुदाहरति—प्रथमेवेति । अत्र द्वितीयायाः सधर्मिण्याः पक्षे विभक्तेश्च प्रथमपत्न्या प्रथमाविभक्त्या च यत्साम्यं संभोगसुखराहित्यतौल्यं रूपतौल्यं च यद्व्यङ्गयं तरक्लीवपदवाच्यस्य षण्डस्य, नपुंसकलिङ्गस्य चान्यथापत्त्यैव सिद्धमिति बोध्यम् । प्रायःपदमर्जुनव्युदासार्थम् ॥ ६॥ वाच्यचमत्कृति लक्षयति-वाच्य इति । तदुदाहरति-अबध्वैवेति । बवयोः सावात्स्त्रीत्वं विनैवेत्यर्थः । अत्र गुणानामतिमनोहारित्वेनादरणीयत्वरूपाद्यङ्गयादुक्तवाच्यार्थस्यैवातिचारुत्वमिति । रज्जवो हि वेष्टनग्रन्थनाभ्यां बध्नन्ति सौन्दर्यादयोऽपि रमणीद्वारा चेति प्रसिद्धमेव । सौजन्यादयस्तु तद्विनापीत्यतो वैचित्र्यमेतेषामित्याशयः । यथावा'सूक्ष्मे घने नैषधकेशपाशे निपत्य निष्पन्दतरीभवद्भ्याम् । तत्रानुबन्धं न विमोच्य गन्तुमपारि तल्लोचनखञ्जनाभ्याम्' इति ॥ ७ ॥ अथ लक्ष्यव्यङ्ग्यक्रमत्वेन शब्दशक्तिमूलमुद्दिशति-लक्ष्येति । तदुदाहरति-सहकारेति । 'वनप्रियः परभृतः कोकिल: पिक इत्यपि' इत्यमरात्कोकिले विषय इत्यर्थः । अत्र वनप्रिय इति पदशक्त्या वनविहारशीलत्वेनाग्राम्यत्वं व्यङ्ग्यं तदगूढमेवेति भावः॥८॥ १४
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy