SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १५६ साहित्यसारम् । [ पूर्वार्धे, गूढमेव मुदे व्यङ्ग्यमङ्गनास्तनकुम्भवत् । न त्वगूढं रसज्ञानां युक्ता तेनास्य गौणता ॥ ३ ॥ तेष्वाद्यं सप्तधैवेष्टं व्यक्तव्यङ्गयादिभेदतः। विप्रंकृष्टतयान्येषां विभेदानामसंभवात् ॥ ४॥ पराङ्गवाच्यसिद्ध्यङ्गास्फुटसंदिग्धतुल्यप्राधान्यकाक्वाक्षिप्तासुन्दरं अष्टविधमेव । पक्षे 'पृथिवी सलिलं तेजो वायुराकाशमेव च । सूर्याचन्द्रमसौ सोमयाजी चेत्यष्टमूर्तयः' इति वचनात्समष्टिव्यष्टयात्मकं सगुणरूपमेवेत्यर्थः । अनुक्रमात् कारिकोद्दिष्टक्रमेणेति यावत् । पक्षे यमनियमादियोगानुक्रमेणेत्यर्थः । सदा निरन्तरं समीक्ष्यतां द्रक्ष्यतामिति संबन्धः ॥ २॥ नन्वगूढव्यङ्गयस्य गौणत्वमनुचितमित्यत्राहगूढ मेवेति । रसज्ञानां मुदे भवतीति योज्यम् । पक्षे रसज्ञानां ब्रह्मविदां मुदे व्यङ्गयव्यञ्जनावृत्यैव महावाक्येन गम्यं गूढं निर्गुणमेव ब्रह्म भवति नत्वगूढं सगुणं, तेनास्य सगुणस्य गौणता युक्तेत्यादिप्राग्वत् ॥ ३ ॥ एवं गौणव्यङ्गयस्याष्टविधत्वे अगूढव्यङ्गयस्य गौणत्वे च सिद्धे तत्रापि प्रथमस्य तस्यापि सप्तविधत्वं व्यक्तव्यङ्गयत्वादिभेदैविधत्ते-तेष्वाद्यमिति । ते च व्यक्तव्यङ्गयादयो भेदाः । यथा-व्यक्तव्यङ्गयम् आर्थिकम् वाच्यचमत्कृति लक्ष्यव्यङ्ग्यम् क्रमत्वेन शब्दशक्तिमूलं तेनैवार्थशक्तिमूलं अर्थान्तरसंक्रमितवाच्यम् अत्यन्ततिरस्कृतवाच्यं चेति सप्तव । ननु काव्यप्रकाशादावस्यार्थशक्तिमूलादिभेदत्रयमेवोक्तम् । व्यक्तव्यङ्गयादिभेदचतुष्टयं तु भवता कुतः कल्पितमिति चेन्न । तस्यापि पूर्वाचार्यसंमतत्वात् । उक्तंहि चन्द्रालोके श्रीजयदेवैरगूढव्यङ्गयं प्रकृत्य-'व्यक्त एव क्वचिद्व्यङ्गयः क्वचिदर्थस्वभावतः । क्वचिच्चारुतरस्याग्रे स विमुञ्चति चारुताम् । अगूढं कलयेदर्थान्तरसंक्रमितादिकम्' इति। ननु ‘ययज्यमानं मनसःस्तैमित्याय स नो ध्वनिः । अन्यथा तु गुणीभूतव्यङ्गयमापतति त्रिधा' इत्येतत्प्रथमकारिकायां सामान्येन गौणव्यङ्गयं यत्रिधात्वेन प्रतिज्ञातं तल्लक्षणान्येव व्यक्त एवेति श्लोकेन विधायाथागूढमित्यादिनोकराशित्रयमध्य एव भेदाष्टकमुक्तमिति कोक्तकल्पनावसर इति चेन्न । एतट्टीकायामगूढत्वस्य त्रैविध्यमाहेति व्यक्त एवेति श्लोकावतरणासाङ्गत्यापत्तेः । तस्माद्युक्तैवोक्तकल्पनेति । नच व्यक्त एवेत्यादिनाऽत्राप्यर्थान्तरसंक्रमितादेत्रिविधस्यैवागूढव्यङ्गयस्य विवृतत्वेन तद्भेदान्तरसंभावनापीति वाच्यम् । अर्थान्तरसंक्रमितादेर्लक्षणादिमूलव्यङ्ग्यस्य व्यक्तव्यङ्गयत्वाद्यसंभवात् । तट्टीकायां वाच्यान्यथानुपपत्तिलभ्यं यथेत्यवतार्य निःशेषच्युतचन्दनमित्युदाहृत्य अचारुव्य यं यथेत्यवतार्य ‘सूक्ष्मे घने नैषधकेशपाशे निपत्य निःस्पन्दतरीभवद्भ्याम् । तत्रानुबन्धं न विमोच्य गन्तुमपारि तल्लोचनखञ्जनाभ्याम्' इति चार्थान्तरसंक्रमितादितोन्यभेदोदाहरणोक्तेश्च । नन्वेवमपि लक्ष्यव्यङ्गयक्रमत्वेन शब्दशक्तिमूलाख्यभेदे किं प्रमाणमिति चेन्न । काव्यप्रकाशकारादिभिरर्थशक्तिमूलाख्यतद्भेदोक्त्यन्यथानुपपत्त्यैव तस्य सिद्धत्वात् । नह्यर्थशक्तिमूलत्वसंभवे शब्दशक्तिमूलवासंभव
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy