________________
अश्ववररत्नम् ५]
सरसामोदव्याख्यासहितम् ।
१५५
अश्ववररत्नम् ५ ध्वनेरनुगुणीभूतव्यङ्गयमावच्मि पञ्चमे । रसालसरसास्वादमोदात्परभृतः कलैः॥१॥ तददो गूढमित्यादिप्राचीनोक्तेः समीक्ष्यताम् ।
सुधीभिरष्टमूत्यैव सदोत्तममनुक्रमात् ॥२॥ पूर्वोत्तरप्रकरणयोः संगतिं वदन् वक्तव्य प्रतिजानीते-ध्वनेरन्विति । परभृतः परैः स्खेतरैः खानव्यवहाराहाह्मणैर्भूतः भैक्षादियावनिर्वाहमात्रवस्तुप्रदानेन पोषितः, पक्षे परैः काकै तः पालितः। कोकिल इत्यर्थः । 'वनप्रियः परमृतः कोकिल: पिक इत्यपि' इत्यमरः । एतादृशः अहमित्यध्याहारः। एवंच भगवत्प्राप्त्यर्थमपरिग्रहानहकारित्वादिसाधनैर्यतमानित्वं सूचितम् । ध्वनेः ध्वन्याख्योत्तमोत्तमकाव्यस्य, पक्षे सहकारमञ्जर्यास्वादनेन कण्ठनिनादस्येत्यर्थः । अनु निरूपणानन्तरम्, पक्षे प्रादुर्भावोत्तरम् । पञ्चमे पञ्चमसंख्याके रत्ने, पक्षे 'पुष्पसाधारणे काले पिकः कूजति पञ्चमम्' इति वचनात्पञ्चमाख्यरागभेदविशेष इत्यर्थः । गुणीभूतव्यङ्गयं गुणीभूतं वाच्यार्थापेक्षयाऽधिकचमत्काराजनकत्वाद्गौणतां प्राप्त व्यायव्यञ्जनावृत्तिसिद्धमर्थजातं यत्र तत्तथा गौणव्यङ्गयाभिधमुत्तमकाव्यमित्यर्थः । पक्षे कुहूरिति कोकिलध्वनेरनुकरणं विनष्टेन्दुकलायाः अमावास्यायाश्च ‘सा नष्टेन्दुकला कुहूः' इत्यमरादभिधानम् । तत्र वसन्तेऽधुना कामोत्कर्षादिन्दुकलावच्छान्तिपूर्वकमज्ञानतमःशामिकायाः स्वात्मविद्यायाः सुतरां विनष्टत्वात्सर्वत्र सर्वदा कुहूरेवास्तीति यद्यङ्गयम् । तत्तावत्तद्धनिमाधुर्याग्रे गुणीभूतमेवास्तीति तादृशं शब्दजातमिति यावत् । कलैः मञ्जुलशब्दैः, पक्षे अव्यक्तमधुरध्वानैरित्यर्थः । रसालेति । 'रसो वै सः' इति श्रुतेः रसो ब्रह्म तेन ये अलसाः 'व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि । तस्यालसधुरीणस्य सुखं नान्यस्य कस्यचित्' इत्यभियुक्तोक्तब्रह्मसुखानुसंधानेन प्रवृत्तिशून्याः ये जीवन्मुक्ताः तेषां यः रसः शान्तिसुखं तस्य आखादः किंचिदनुभवस्तेन यो मोदो हर्षस्तस्माद्धेतोरित्यर्थः । एतेनायासाभावो व्यज्यते । पक्षे रसाल: आम्रस्तस्य यः सरसः आस्वादो मञ्जरीभक्षणं तन्मोदात् आवच्मि किंचिद्वक्ष्यामीत्यन्वयः॥ १॥ एवं प्रतिज्ञातस्य गौणव्यङ्गयाख्योत्तमकाव्यस्य सप्रमाणं प्रकारभेदमुद्दिशति-तदद इति । सुधीभिः पण्डितैरित्यर्थः । पक्षे मुमुक्षिभिः तत् प्रतिज्ञातकथनं गौणव्यङ्ग्याभिधमुत्तमकाव्यमित्यर्थः । अदः इदं वक्ष्यमाणत्वेन बुद्धिस्थमिति यावत् । अगूढमिति च्छेदः । इत्यादीति । 'अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् । व्यङ्गयमेवंगुणीभूतव्यङ्गयस्याष्टौ भिधा मताः' इति काव्यप्रकाशकारिकोक्तरित्यर्थः । पक्षे 'तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्' इति च श्रुतेश्चिद्रूपत्वेन नित्यापरोक्षमपि निर्गुणत्वादिना परमसूक्ष्ममित्यर्थः । उत्तमं काव्यं, पक्षे निरतिशयानन्दरूपत्वेन परमपुरुषार्थीभूतं अद्वैतं ब्रह्मेत्यर्थः । अष्टमूर्येव अगूढा