SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । अत्र सप्तदशैतेऽपि रसध्वन्युक्तया दिशा । यथासंभवमभ्यूह्या व्यञ्जनायाः स्थले बुधैः ॥ २९० ॥ गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दधे । दक्षिणकाख्यमपि स्फुटितबहुध्वनिचतुर्थरत्नमिदम् २११ त्यर्थः । शिरः मस्तकं अधिरूढा त्वया निजोत्तमाङ्गे निहितेति यावत्, पक्षे शिरः कम्पनेनाभिनन्दिता, पक्षान्तरे सतीत्वभ्रान्त्या विषयलम्पटत्वेन वाभिवन्दितास्तीत्यर्थः । मन्मतिः मम भक्तस्य मतिर्बुद्धिः । पक्षे मम हितोपदेष्टुः कस्यचित्सचिवादेः मतिः । लौकिकादिविवेकज्ञानमितियावत् । पादमपि चरणमपि न नाधिरूढा भवति । पक्षे नैवाद्रीयत इत्यर्थः । तस्मान्मदङ्गीकरणं करणीयमेवेति भावः । अत्र शिवनरदेवाद्योरुपमानोपमेयभावो व्यङ्गयः । सच भुजङ्गकुटिलकलङ्किकलेशपदानां नानार्थकत्वेन परिवृत्त्य सहिष्णुत्वादन्येषां चातथात्वेन तत्सहिरुणुत्वादुभयेषामपि व्यञ्जकत्वेन शब्दार्थोभयशक्तिमूल एव । परिवृत्त्यसहिष्णुत्वं तु पर्यायान्तरोपादाने द्वितीयार्थाबोधकत्वमेव । नहि भुजङ्गपदे सर्पाख्यपर्यायान्तरे गृहीते वेश्यापत्यभिधद्वितीयार्थबोधकत्वं घटते । अतएव काव्यप्रकाशटीकायां सारबोधिन्यामीदृक्स्थले पदानां परिवृत्त्य सहिष्णुत्वं प्रतिज्ञाय तत्र पर्यायान्तरोपादानेऽपरार्थ बोधासंभवादिति हेतुरुक्तः । तच्च नानार्थस्थल एव । तथाहि रसगङ्गाधरे - ' तदित्थं नानार्थस्थलेऽनुरणनरूपव्यञ्जनं शब्दशक्तिमूलं शब्दस्य परिवृत्त्यसहिष्णुत्वादिति ध्वनिकारानुयायिनो वर्णयन्ति इति । अयंच शब्दार्थोभयशक्तिमूलो ध्वनिर्वाक्य एव नतु पदेऽपि । इदमप्युक्तं तत्रैव निरुक्तध्वनिमुदाहृत्य । अयंच वाक्यमात्रे | पदसमूहश्च वाक्यं । तेनास्य नानार्थघटितसमासविष. यत्वेऽपि न विरोधः नतु शुद्धपदे तस्मिन्नानार्थयो रसावेशादिति । यथावा काव्यप्रकाशे—'अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा | तारकातरला श्यामा सानन्दं न करोति कम्' इति । रसगङ्गाधरेऽपि - ' रम्यहासा रसोल्लासा रसिकालिनिषेविता । सर्वाङ्गशोभा संभारा पद्मिनी कस्य न प्रिया' इति । नच भुजङ्गादौ केवलरूढे कलंक्यादौ केवलयौगिके च भवतु नाम निरुक्तरीत्या व्यञ्जना, तथापि कलादौ योगढ सानुचितेति वाच्यं, तत्रापि रूढेतरार्थस्य तांविना रूढार्थबोधोत्तर घण्टाध्वन्यनुरणनरीत्यानुभवसिद्धत्वस्य सहृदयेषु सत्वेन तद्वाधापत्तेः । अत एवैवं निर्णीतं रसगङ्गाधरे'योगरूढस्य शब्दस्य योगरूढ्या नियन्त्रिते । धियं योगस्पृशोऽर्थस्य या सूते व्यञ्जनैव सा' इति ॥ २०९ ॥ ननु भवत्वेवं ध्वनेरष्टादशत्वं तथापि रसध्वनिवदेतेषामपि यावद्यञ्जनास्थलवर्तित्वं कुतो नोदाहृतमिति चेत्तदतिदिशति — अत्रेति । ग्रन्थे एते लक्ष्यव्यङ्गचक्रमादयः उभयशक्तिमूलादेर्वाक्यैकवृत्तित्वादिना यथासंभवमिति ॥ २१० ॥ उपसंहरति-— गोक्षीरेति । दक्षिणेति । दक्षिणावर्तो यः कम्बुः शङ्खः स्फुटितेति ध्वनयः उत्तमोत्तमकाव्यभेदाः, पक्षे रवाः ॥ २११॥ इति साहित्यसारे दक्षिणावर्तकम्बाख्यं ध्वन्यपरनामकोत्तमोत्तमकाव्य स्वरूपनिरूपणात्मकं चतुर्थरत्नं संपूर्णम् ॥ ॥ 11 १५४ 11 11 [ पूर्वार्ध
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy