SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ क्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् । १५३ एवं पूर्वप्रतिज्ञातं यवनेर्भेदसप्तकम् । तत्रालयक्रमव्यङ्गयः शक्तिमूलो रसध्वनिः ॥ २०६॥ अर्थंक शक्तिमूलौ तौ वस्त्वलंकारगौ तथा । प्रपञ्चितास्त्रयोऽत्रैते शिष्टाः प्रागेव दर्शिताः ॥ २०७॥ चत्वारस्ते रसस्त्वेको द्वादशैते तथा पुनः। शब्दार्थोभयजोऽप्येकोऽयमस्त्यष्टादशेत्यमी ॥ २०८ ॥ भुजङ्गाहितसङ्गापि कुटिलापि कलकिनः । कला शिरोधिरूढेश न पादमपि मन्मतिः ॥२०९॥ यथाक्रमं द्वादश भेदानुदाहृत्य प्रथमोपक्रमसांगत्यमाह-एवमिति युग्मेन । एवमुक्तग्रन्थेन पूर्व उपक्रमे यत् ध्वनेः उत्तमोत्तमकाव्यस्य भेदसप्तकं प्रतिज्ञातं 'इत्येते सप्त सामान्यात्' इत्यादिना प्रतिज्ञाविषयीकृतं तत्र तन्मध्ये अलक्ष्यक्रमव्यङ्गयः शक्तिमूलः रसध्वनिः ॥ २०६ ॥ तथा अर्थैकशक्तिमूलौ वस्त्वलंकारगौ तो ध्वनी च एते त्रयः अत्र प्रपञ्चिताः विस्तरतः कथिताः । शिष्टाः शब्दशक्तिमूलौ वस्त्वलंकारध्वनी लक्षणामूलावर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति चत्वारः प्रागेव दर्शिता इत्यन्वयः ॥ २०७ ॥ ननु प्रथमं तु सामान्यतः सप्तैव ध्वनिभेदा. उपक्रान्तास्तत्र रसध्वनिभेदास्तु शृङ्गारादिभेदेन बहवः प्रपञ्चिताः, किंचात्र वस्तुध्वनिप्रकरणेत्यर्थशक्तिमूला एवैते द्वादश ध्वनिभेदाः कथितास्तथात्वे कथं नोपक्रमविरोधः। काव्यप्रकाशादौ तु दशसहस्रं ध्वनिभेदाः किंचि. दधिकाश्च परिगणितास्ततः प्राचीनैः सहापि विरोध इत्यत्राह-चत्वार इति। ते पूर्वश्लोके उर्वरितत्वेनोक्ताः प्रथमोद्दिष्टध्वनिसप्तकगाः शब्दशक्तिमूलवस्तुथ्वन्यादयश्चत्वारश्चतुःसंख्याका इत्यर्थः । तु पुनः रसः रसध्वनिः एकः सर्वोऽपि रसध्वनिरेकसंख्याक एवेत्यर्थः । उक्तं हि काव्यप्रकाशमूले—'रसादीनामनन्तवाद्भेद एको हि गण्यते' इति । तथा एते अर्थशक्तिमूलवस्त्वलंकारध्वनिभेदत्वेनानुपदमुक्ताः द्वादश पुनः अयमधुनैव वक्ष्यमाणः शब्दार्थोभयजोऽपि शव्दार्थोभयशक्तिमूलोऽपि । अपिः समुच्चये। एकोऽस्ति इति एवं मिलिताः अमी निरुक्ताः अष्टादश एतत्संख्याकाः ध्वनिभेदाः सन्तीत्यर्थः । एतदप्युक्तं तत्रैवभेदा अष्टादशास्य तदिति । अवान्तरभेदास्त्वनुपयुक्तत्वान्नैवोक्ताः ॥ २०८ ॥ तमेव शब्दार्थोभयशक्तिमूलं ध्वनिमुदाहरति-भुजंगेति । हे ईश शंभो, पक्ष राजन् , भुजङ्गाहितसङ्गापि भुजङ्गः शिवस्य सर्पभूषणत्वात्तच्छिरोभूषणीभूतः कश्चिन्नागविशेषः, पक्षे 'वेश्यापतिर्भुजङ्गः स्यात् खिड्गः पालविको विट:' इत्यमरात् जारः तेन आहितः कृतः सङ्गो यस्याः सा । यद्वा तस्य आहितः सङ्गो यया सा तथेत्यर्थः । एतेनाचारतो दुष्टत्वादनादरणीयत्वं ध्वनितम् । एतादृश्यपि तथा कुटिलापि वकापि, पक्षे दुःसाध्यापि पक्षान्तरे परच्छिद्रान्वेषिण्यपीत्यर्थः । अनेन शीलतोऽपि तद्व्यक्तम् । ईदृश्यपि कलङ्किनः चन्द्रस्य, पक्षे प्रख्यातदोषग्य पुंविशेषस्येत्यर्थः । एवं च कुलतोऽपि तत्सूचितम् । कला षोडशो भागः, पक्षे संगीतादिरूपा, पक्षान्तरे कं विषयसुखं लाति आदत्त इति कला जारिणी । तरुणी
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy