________________
१५२
[पूर्वार्धे
साहित्यसारम् ।
तरुणीमृगनाभ्यक्तस्तनवल्मीकशायिना | दष्टोऽनङ्गभुजङ्गेन को जीवति जगत्रये ॥ २०३ ॥ स्मरस्मेराननाः कस्माद्भवत्यो नावलोकिताः । विभावर्या जनैः स्वैरं गोप्यः कृष्णमुपागताः ॥ २०४ ॥ अय्यब्जे त्वत्कुचद्वन्द्वे मन्नखाङ्काः स्फुरन्त्यमी । स्वर्णाद्रिशृङ्गयोः प्रातस्तरणेः किरणा इव ॥ २०५ ॥
तरुणीति । मृगनाभिना कस्तूर्या अक्तः अभ्यक्तः सुस्निग्धमालिप्तो यः स्तनः तरुण्याः यो मृगनाभ्यक्तस्तनः स एव वल्मीकं तत्र शेते निद्रातीति तथा तेनेत्यर्थः । एतादृशेन अनङ्गभुजङ्गेन स्मरोरगेण दष्टः कृतदंशः जगत्रयेऽपि कः पुरुषः जीवति अपि । न कोऽपि जीवतीति योजना । अत्र रूपकालंकारस्य कविप्रौढोक्तिमात्रसिद्धत्वात्तथा को जीवतीत्याक्षेपस्य च तथा — त्वात्ताभ्यामनङ्गभुजङ्गस्य प्रसिद्धभुजङ्गतो विशेषाध्यतिरेकालंकारो व्यज्यते । यथावा' स्थविरं या हसन्तीव स्थिता कविमुखाम्बुजे । निर्मिमीतेऽन्यदिव या वाणी जयति सा जगत्' । अत्र हसन्तीवेत्युत्प्रेक्षया अन्यदिवेत्युत्प्रेक्षया वा वाण्याः कवेर्वा व्यतिरेकालंकार इति ॥ २०३ ॥ अथ कविनिबद्ध वक्तृप्रौढोक्तिसिद्धवस्तुनाऽलंकारध्वनिमुदाहरति— स्मरेति । इयं कृष्णसख विशेषस्य निशि वृन्दावने तमभिसृताः गोपीः प्रति प्रश्नोक्तिः । अक्षरार्थस्तु स्फुट एव । अत्र स्मरस्मेराननाः हे गोप्यः, भवत्यः विभावर्या खैरं कृष्णमुपागता अपि जनैः कस्मान्नावलोकिता इति कविकल्पितगोपबालविशेषव प्रौढोक्तिसिद्धप्रश्नरूपवस्तुना तासां मुखेषु शरत्पूर्णचन्द्ररूपकालंकारव्यक्तिः । यथावा साहित्यदर्पणे - ' सुभगे कोटिसंख्यत्वमुपेतं मदनाशुगैः । वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्' । अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन शराणां कोटिसंख्यत्वप्रात्या निखिलवियोगिमरणेन वस्तुना शराणां पञ्चता शरान्विमुच्य वियोगिनः श्रितेवेत्युत्प्रेक्षा व्यज्यत इति ॥ २०४ ॥ तत्रैवालंकारेणालकारध्वनिमुदाहरति—अयीति । इदं हि पुनः कामुकीं कमलां प्रति भगवद्वचनम् । अयि इति मृदुसंबोधने । अब्जे भो कमले, त्वत्कुचद्वन्द्वे अमी प्रत्यक्षाः मन्नखाङ्काः स्फुरन्ति । विभान्तीत्यर्थः । तत्रानुरूपं दृष्टान्तं ब्रुवन्नुषः कालत्वान्नायं सुरतसमय इति सूचयति – स्वर्णेति । अत्र कविकल्पितभगवदाख्यवैक्तृप्रौढोक्तिसिद्धोपमालंकारेण यतः प्रभातः समयः संपन्नोऽतः सुरतावसरोऽयं न भवतीति हेत्वलंकारो व्यज्यते । यथावा रसगङ्गाधरे - 'दयिते रदनत्विषा - मिषादयि तेऽमी विलसन्ति केसराः । अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः' । अत्र पूर्वोत्तरार्धवर्तिनीभ्यामपह्नुतिभ्यां न त्वं नारी किंतु नलिनीति तृतीयापह्नुतिर्व्यज्यत इति । यथावा राकागमे — 'कान्तासहस्रभरिते हृदये सा न माव्यतः । तनूकरोति सुतनुस्तनून्यङ्गान्यपि द्रुतम् । अत्र हेत्वलंकारेण तनोस्तनूकरणेऽपि तव हृदये न वर्तत इति विशेषोक्तिरिति ॥ २०५ ॥ इत्थं