SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्बुरत्नम् ४ ] सरसामोदव्याख्यासहितम् । वैकर्तनांशवोऽन्तस्तमांसि बिसिनीसखाः । शौकाशनीयतां यान्ति दलप्रालेयविन्दुषु ॥ २०१ ॥ अविवेकं समालोक्य कामिन्यो भीरवोऽभवन् । मद्यं द्रवं बरीभर्ति द्यूतः क्लीवत्वमागतः ॥ २०२ ॥ रितमहावाक्यजन्यदृढतमाद्वैतात्मतत्त्वसाक्षात्कारेण विनष्टे सति किंचन यावद्वैतलेशमपि नैव पश्यामि नैवानुभवामीत्यर्थः । स्पष्टमन्यत् । अत्र धर्मशीलज्ञानि नामेव धन्यत्वं न समाधिशीलस्य तस्य ममेति वस्तुना मानित्वात्खतः संभविनाऽहमेव धन्य तु तेऽपीति व्यतिरेकालंकारो व्यज्यते । यथावा काव्यप्रकाशे— 'धन्यासि या कथयसि प्रियसङ्गमेऽपि विश्रव्धचाटुकशतानि रतान्तरेषु । नवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि' | अत्र त्वमधन्या अहंतु धन्येति व्यतिरेकालंकार इति ॥ २०० ॥ तत्रैवालंकारेणालंकारध्वनिमुदाहरति— वैकर्तनांशव इति । 'विकर्तनार्कमार्तण्डमिहिरारुणपूषणः' इत्यमराद्विकर्तनः सूर्यः तस्येमे वैकर्तनास्ते च तेंशवः किरणाः सौरा: करा इत्यर्थः । तमांसि अश्नन्तः भक्षयन्तः सन्तः दलप्रालेयविन्दुषु दलेषु पत्रेषु ये प्रायविन्दवः हिमविन्दवः तेषु शौकाशनीयतां अशितुं योग्यमशनीयं शुकानां कीराणां गणः शौकं तस्याशनीयं भक्ष्यं तस्य भावस्तामित्यर्थः । तत्र किंसंबन्धीनि दलानीत्यत्र तान्विशिनष्टि — बिसिनीति | बिसिनीनां कमलिनीनां सखायः सुहृद इति तथा । पद्मिनीबन्धव इत्यर्थः । अत्र सूर्यकिरणास्तमांस्य श्नन्तः सन्त एव शौकाशनीयतां यान्तीति लोकसिद्धविरोधाभासालंकारेण कमलिनीदलगतहिमबिन्दुषु वैकर्तनांशवः शौकाशनीयतां यान्तीत्युक्त्या तेषां तमोऽनन्त इति सन्नन्तविशेषणादुषः कालीनत्वेनारुणवर्णत्वादुक्त हिमबिन्दूनां च भयसंमेलनेन कीराणां तत्र दाडिमबीजभ्रान्तिसंभवाद्भान्तिनाम कोऽलंकारः सूचितः । यथावा काव्यप्रकाशे - ' गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्ययः । ओष्टविद्रुमदलान्यमोचयन्निर्दशन्युधि रुषा निजाधरम् । अत्र विरोधालंकारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता मम क्षत्याप्यन्यस्य क्षतिर्निवर्ततामिति तद्बुद्धिरुत्प्रेक्ष्यतइत्युत्प्रेक्षाचेति ॥२०१॥ एवं कविप्रौढोक्तिसिद्धवस्तुनाऽलंकारध्वनिमुदाहरति - अविवेकमिति । बरीभर्ति पुनःपुनः पुष्णाति । स्पष्टमन्यत् । अत्राविवेकावलोकनात्तस्य स्वतोऽप्यधिकतरविपरीतकारित्वेन स्वस्य तद्भर्वभङ्गवशात् कामिन्यादिभिर्भीरुत्वादिकं समासादितमिति कविप्रौढोक्तिमात्र सिद्धेन वस्तुना कामिन्यादितोऽप्यविवेकस्तु विचित्र एवेति व्यतिरेकालंकारो व्यज्यत इति । यथावा साहित्यदर्पणे - 'रजनीषु विमलभानोः करजालेन प्रकाशितं वीर । धवलयति भुवनमण्डलमखिलं तव कीर्तिसंततिः सततम्' । अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीर्तिसंततेश्चन्द्रकरजालादधिककालं प्रकाशकत्वेन व्यतिरेकालंकारो व्यङ्गय इति ॥ २०२ ॥ तत्रैवालंकारेणालंकारध्वनिमुदाहरति १५१
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy