SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १५० [ पूर्वार्धे साहित्यसारम् । सखि ते चरणद्वन्द्वपुनर्भवसवैभवम् । बालजैवातृकं मौलौ धत्ते दर्पकदर्पकः ॥ १९८ ॥ राधे त्वां तिलकं कर्तुं कृष्णाय शशिनो मिषात् । कामो ददाति कस्तूरिपूर्ण रजतभाजनम् ॥ १९९ ॥ धन्यास्ते ब्रह्मबोधोर्ध्वमपि धर्म चरन्ति ये । अहं तु तमसि ध्वस्ते नैव पश्यामि किंचन ॥ २०० ॥ सद्गुरुस्तस्य पाद एव पद्मं तदेवारुणस्तस्योदयः प्राकट्यं नास्तीति संबन्धः । अत्र कविप्रौढोक्तिसिद्धरूपकालंकारेण श्रीसद्गुरुचरणारविन्ददर्शने कस्यापि मौख्य नास्तीति वस्तुव्यक्तिः । यथावा साहित्यदर्पणे-'दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः। मणिव्याजेन पर्यस्ता पृथिव्यामश्रुबिन्दवः' । अत्र कविप्रौढोक्तिसिद्धेनापहृत्यलं. कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यत इति ॥१९७॥ अथ कविकल्पितवक्तप्रौढोक्तिसिद्धवस्तुना वस्तुध्वनिमुदाहरति-सखीति । इदंहि गौरी प्रति विजयावचः । हे सखि अयि वयस्ये गौरि, दर्पकदर्पकः मन्यथमथनोऽपि शिवः ते चरणद्वन्द्वपुनर्भवसवैभवं 'पुनर्भवः कररुहो नखोऽस्त्री नखरोस्त्रियां' इत्यमरात्पदयुगनखैः समानं वैभवं लावण्यैश्वर्य यस्य तमित्यर्थः । एतादृशं बालजैवातृकं किशोरहिमकरं मौलौ धत्त इत्यन्वयः। अत्र कविकल्पितविजयाख्यवक्तृप्रौढोक्तिमात्रसिद्धेन भो गौरि, निरन्तरं त्वदनुनयार्थमेव त्वत्पदनखतुल्यरूपं चन्द्रं हरः शिरसि धारयतीति वस्तुना त्वं मानमपसारयेति वस्तु व्यज्यते। यथावा साहित्यदर्पणे–'शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः। सुमुखि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः' । अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिरूपेण वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयत इति ॥१९८॥ तत्रैव चालंकारेण वस्तुध्वनिमुदाहरति-राधे त्वामिति । इयं हि मानवती राधिका प्रति दूतिकोक्तिः । हे राधे, कामः कस्तूरीपूर्ण रजतभाजनं शशिनः मृगाङ्कस्य मिषात् छलात्कृष्णाय त्वां तिलकं कर्तुं ददातीति संबन्धः । अत्र कविनिबद्धदूतीरूपवक्तप्रौढोक्तिसिद्धेन कैतवापहृत्यलंकारेण राकानायकोदयः संपन्नोऽतस्त्वया द्रुतं मानस्त्याज्य इति वस्तु द्योतितम् । यथावा साहित्यदर्पणे-'मालतीमुकुले भाति गुञ्जन्मत्तमधुव्रतः । प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव' । अत्र कविनिबद्धवक्तप्रौढोक्तिसिद्धेनोत्प्रेक्षालंकारेण कामस्यायमुन्माथनकाल: प्राप्तस्तत्कथं मानं न मुञ्चसीति वस्तु व्यज्यत इति ॥ १९९ ॥ एवं वस्तुव्यञ्जनकोटिनिविष्टं ध्वनिभेदषट्कमुदाहृत्याथैवमेवालंकृतिव्यञ्जनकोटिनिविष्टं तदुदाहरन् प्रथमं खतःसंभविवस्तुनालंकारध्वनिमुदाहरति-धन्यास्त इति । अपिशब्दात् 'किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः' इत्यादिश्रुतियुक्तिसहस्रैः संन्यासस्यैव तत्त्वज्ञानोत्तरमुपपादितत्वात्तदुलंचित्वे कर्मजडस्वापत्तिः सूचिता । तुशब्दो वैलक्षण्यार्थः । तमसि अज्ञाने। तस्मिन्ध्वस्ते विचा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy