SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४९ दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् । बालानेत्रत्रिभागेण विभागीभूतचेतसाम् । अन्तःशान्तिः क्व वेदान्तैः कल्पान्तेऽपि च हन्त नः १९६ तावद्ववर्ति सर्वत्र देवानां प्रियता जने । यावन्न देशिकेशानपादपद्मारुणोदयः ॥ १९७ ॥ ष्टयः । कौक्षेयको मण्डलायः करवाल: कृपाणवत् । त्सरुः खड्गादिमुष्टौ स्यात्' इत्यमरः । तस्मान्मत्सरिणः परिहरणीया एवेति भावः । अत्र श्लेषानुप्राणितोपमालंकारेण मत्सरिणां सङ्गः स्वप्नेऽपि न कार्य इति वस्तु व्यज्यते । यथावा काव्यप्रकाशे-'दन्धिगन्धगजकुम्भकपाटकूटसंक्रान्तनिघ्नघनशोणितशोणरोचिः । वीरwलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः' अत्रोपमालंकारेण सकलरिपुबलक्षयः क्षणाकरिष्यत इति वस्तु इति । साहित्यदर्प पि-आपतन्तममुं दूरादरीकृतपराक्रमः । बलोऽवलोकयामास मातङ्गमिव केसरी' । अत्रोपमालंकाररूपेण स्वतःसंभविनार्थेन बलदेवः क्षणेन वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यत इति। यथावा मदीये कृष्णलीलामृते-'स्तुतोऽप्य. सौ सत्यवतीसुतादिभिर्बुधांस्तदामोदलवेन मोदये । न कि समुत्फुल्लवसन्तमालतीसुगन्धतस्तपयते सदागतिः' । अत्र वायकर्तृकनिरुक्तमालतीसौरभ्येण वुधतृप्तिरूपस्वतःसंभविनैवार्थान्तरन्यासालंकारेण व्यासादिस्तुतस्यापि भगवतस्तत्कृतस्तवै. कदेशावलम्बनेन श्रीकृष्णस्यैव वर्णनतो मत्कर्तृकबुधबुद्धिमोदनं युक्ततरमेवेति वस्तु व्यज्यत इति ॥ १९५ ॥ अथ कविप्रौढोक्तिसिद्धवस्तुना वस्तुध्वनिमुदाहरति-बालेति । नः रागिणामस्माकं । हन्तेति खेदे। वेदान्तैः उपनिषद्भागः कल्पान्तेऽपि ब्रह्मप्रलयेऽपि अन्तः अन्तःकरणे शान्तिरुपरतिः क्व । न क्वचिदपि भविष्यतीति योजना। एतेन निर्वेदातिशयः सूचितः । तत्र हेतु:-बालानत्रेति । बाला मुग्धा सुन्दरी तस्याः नेत्रं तस्य यः त्रिभागः तृतीयोंशः । अपाङ्गदेश इति यावत् । तेन त्रिभागीभूतेति त्रिभागीभूतं त्रिखण्डीभूतं चेतोऽन्तःकरणं चेषां तेषाम् । रमणीकटाक्षक्षुण्णमनसामित्यर्थः । अत्र स्वदोषदर्शित्वेन परमविवेकित्सान्निरुक्तशान्तः सिद्धत्वेऽपि स्वस्य कवित्वेन स्वयमेव बालेयादिविशेषणकल्पितस्वरागित्वरूपवस्तुना कालान्तरेऽपि निरुक्तशान्तेः संपत्तिः खस्य दुःसाध्यैवेति वस्तु व्यज्यते । यथावा रसगङ्गाधरे—'तदवधि कुशली पुराणशास्त्रश्रुतिशतचारुविचारजो विवेकः । यदवधि न पदं दधाति चित्ते हरिणकिशोरदृशो दृशोविलासः' । अत्र कामिनीदृग्विलासे चेतसि पदमर्पितवति विवेकस्य नास्ति कुशलमिति वस्तुना दृग्विलासकर्तृकपदार्पणस्य लोकसिद्धत्वाभावात्कविप्रौढोक्तिनिष्पन्नत्वेन सुनिषण्णे तस्मिन्का कुशलचर्चा विवेकस्येति वस्तु व्यज्यत इति ॥ १९६ ॥ तत्रैव चालंकारेण वस्तुध्वनिमुदाहरति–तावदिति । 'देवानांप्रिय इति च मूर्खे' इत्यनुशासनाद्देवानांप्रियता मूर्खतेत्यर्थः । सा सर्वत्र जने तावदेव वर्वति यावत् । देशिकेशानेति । देशिकाः गुरवस्तेषां मध्य ईशानः श्रेष्टः
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy