SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १४८ साहित्यसारम् । [पूर्वार्ध यमेवालम्ब्य लोकानां जीवितान्तमचीक्लपत्।। चन्द्रहासोऽपि किं नासौ त्सरुतुल्योऽत्र मत्सरी॥१९५॥ न्यक्षराणि यथा स्यात्तथा प्राहेत्यन्वयः। अत्र रसालसुविकसनान्यथानुपपत्तिसिद्धत्वादर्थशक्तिमूलं वसन्तागमरूपं कविकल्पितत्वादिराहित्येन स्वतःसंभवि यद्वस्तु तेन अयि प्राणनाथ, अस्मिन्विलासावसरे सर्वथैव प्रवासं प्रति श्रीमद्भिनैव गन्तव्यमिति वस्तु ध्वनितम् । तेनेह व्यङ्गयव्यञ्जकयो हैकावस्थानप्रार्थनसहकारविकाससिद्धवसन्तप्राप्तिरूपवस्तुनोः क्रमस्य सहृदयैर्लक्षितुं शक्यत्वाल्लक्ष्यव्यङ्गयक्रमत्वं बोध्यमिति दिक् । एवमग्रेऽपि अर्थशक्तिमूलत्वादिकमूह्यम् । यथावा रसगङ्गाधरे-'गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम् । आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः' । अत्र मधुव्रतकर्तृकमजुगुञ्जनायैर्वस्तुभिः कविकल्पितत्वविरहेण च स्वतःसंभदिभिरासन्नसरसिजोत्पत्तिध्वननद्वारा शरदागमनैकट्यरूपं वस्तु व्यज्यत इति । साहित्यदर्पणेपि–'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदानलग्रन्थयः' । अनेन खतःसंभविना वस्तुमात्रेण तत्प्रतिपादिकाया भाविपरपुरुषोपभोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यत इति ॥ १९४ ॥ उक्तकोटावेवालंकारेण वस्तु. ध्वनिमुदाहरति-यमेवेति । चन्द्रहासोऽपि चन्द्रइव शुचिः हासो यस्य स तथा सुप्रसन्नोऽपि कश्चिज्जन इत्यर्थः । एवंच खलसङ्गात्सात्विकोऽपि भ्रश्यतीति व्यज्यते । यद्वा चन्द्रहासः अपीति च्छेदः । सः प्रसिद्धः चन्द्रहा चन्द्रं हन्तीति तथा राहुरित्यर्थः । सोऽपि । एतेनातिदुष्टत्वेन प्रथितोऽपि राहुन विना केलाख्यखदेहरूपदुर्जनसङ्गमममृतपाने वञ्चकत्वेन प्रवृत्तः खतोऽभूदतो दुःसङ्गः क्वापि मास्त्विति द्योत्यते । पक्षे खड्गोपि। एतेन खड्ने परप्राणहरणप्रावण्यप्रसिद्धावपि नास्य खतस्तथात्वमपितु बद्धमुष्टियोगादेवेत्यतो नैव हितैषिभिः स कार्य इति ध्वनितम् । यमेव मत्सरिणमेव पुरुषं, पक्षे मत्सरिणमेव केत्वाख्य देहं, पक्षान्तरे खड्गमुष्टिमित्यर्थः । आलम्ब्य आश्रियेतियावत् । अवधारणं वितरव्यावृत्त्यर्थम् । तस्मात्सकलदुर्जनेभ्योऽप्यधिकतरवर्जनीय एव मत्सरीति सूचितम् । अतएवोक्तं श्रीमद्भागवतेऽपि-'धर्मः प्रोज्झितकैतवोऽत्र परमो निमत्सराणां सताम्' इत्यत्र निर्मत्सरत्वमेव मुख्यत्वेन सतां विशेषणम् । लोकानाम् । सामान्यतः सकलजनानामित्यर्थः । जीवितान्तं जीवित प्राणधारणं तस्यान्तो ध्वंसस्तम् । पुरुषपक्षे इष्टविनाशद्वारा, राहुपक्षे शनिवद्राहुफलमिति ज्योतिर्वित्प्रसिद्धेः शनिरशनिश्चेति काव्यप्रसिद्धेश्च विपद्वारा, खड्गपक्षे तु प्रहारद्वारैव अचीकृपत् भूयः समर्थोऽभूत् । संपादयामासेत्यर्थः । असायुक्तलक्षण: मत्सरी परोत्कर्षासहनं मत्सरः स यस्यास्तीति तथा । असूयावानित्यर्थः । अत्र जगति त्सरुतुल्यः खड्गमुष्टिरिव न भवति किम्' अपितु भवत्येवेत्यन्वयः । 'खङ्गे तु निस्त्रिंशश्चन्द्रहासासि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy